________________
स्थितिसत्त्वनिरूपणम् ] अनिवृत्तिकरणाधिकारः
[ ५५ गदे एक्कसराहेण मोहणीयस्स हिदिसंतकम्म थोवं, णामागोदाणं हिदिसंतकम्ममसंखेज्जगुणं, चउण्हं कम्माणं हिदिसंतकम्म तुल्लमसंखेज्जगुणं ।" इति ।
अनन्तरोक्तस्थितिसत्त्वा-ऽल्पबहुत्वक्रमेण स्थितिखण्डसंख्यसहस्रषु गतेषु वेदनीयस्य स्थितिसत्त्वं ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामुपर्यसंख्येयगुणं गच्छति, ज्ञानावरणादितोऽसंख्येयगुणं संजायते इत्यर्थः । इतः प्राग ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां वेदनीयस्य च स्थितिसत्त्वं परस्परं तुल्यमासीत् , अतः प्रभृति ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां स्थितिसत्त्वतो वेदनीयस्य स्थितिसत्त्वमसंख्येयगुणं जायते । इदानी स्थितिसत्त्वा-ऽल्पबहुत्वमित्थं भणितव्यम्-मोहनीयस्य स्थितिसत्त्वं सर्वाल्पम् , ततो नामगोत्रयोरसंख्येयगुणम् , ततो ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामसंख्येयगुणम् , ततो वेदनीयस्या-ऽसंख्येयगुणम् । उक्तं च कषायप्राभूतचूर्णी-"तदो द्विदिखण्उयपुधत्तेण मोहणीयस्स हिदिसन्तकम्म थोवं, णामागोदाणं द्विदिसंतकम्म असंखेजगुणं, तिण्हं घादिकम्माणं हिदिसंतकम्ममसंखेजगुणं, वेदणीयस्स हिदिसन्तकम्ममसंखेजगुणं ।" इति ।
ततः परं संख्यसहस्रेषु स्थितिखण्डेषु जितेषु ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामुपर्यसंख्येयगुणं नामगोत्रयोः स्थितिसत्त्वं गच्छति, ज्ञानावरणादितोऽसंख्येयगुणं भवतीत्यर्थः, ततो वेदनीयस्य स्थितिसत्त्वं केवलं विशेषाधिकं भवति । प्राक्तु नाम-गोत्रयोः स्थितिसत्त्वतोज्ञानावरण दर्शनावरणाऽन्तरायाणां स्थितिसत्त्वमसंख्येयगुणमासीत् , ततो वेदनीयमसंख्येयगुणम् , इदानीं पुनर्ज्ञानावरणादितो नामगोत्रयोः स्थितिसत्वमसंख्येयगुणं भवति, नामगोत्रयोश्च स्थितिसत्त्वतो वेदनीयस्य स्थितिसत्त्वं केवलं विशेषाधिकं भवतीति भावः । स्थितिसत्त्वाऽल्पवहुत्वं पुनरित्थमभिधातव्यम्मोहनीयस्य स्थितिसत्त्वं सर्वस्तोकम् , ततो ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामसंख्येयगुणम् , स्वस्थाने तु मिथः सदृशम् , ततोऽपि नाम-गोत्रयोरसंख्येयगुणम् , स्वस्थाने तु मिथस्तुल्यम् , ततो वेदनीयस्य विशेषाधिकम् । उक्तं च कषायप्राभूतचूर्णी-“तदो द्विदिखण्डयपुधत्तेण मोहणीयस्स हिदिसन्तकम्मं थोवं, तिण्हं घादिकम्माणं ठिदिसंतकम्मं असंखेजगुणम्, णामागोदाणं ठिदिसन्तकम्ममसंखेजगुण, वेदणीयस्स ठिदिसंतकम विसेसाहियं ।" इति ॥ ३७॥
साम्प्रतमनिवृत्तिकरणप्रथमसमयात्प्रभृत्यनन्तरोक्तस्थितिसत्त्वाऽल्पबहुत्वं यावत् सर्वा प्ररूपणा यन्त्रके दश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org