________________
५४ ]
[ गाथा-३७
कर्मणां स्थितिसत्त्वं पल्योपमा - संख्येयभागमितं तावद्वक्तव्यम्, यावद्विशेषो ना - ऽभिधीयेत । साम्प्रतमल्पबहुत्वमित्थं द्रष्टव्यम् - नाम - गोत्रयोः स्थितिसत्त्वं सर्वापं स्वस्थाने तु मिथस्तुल्यम्, ततो ज्ञानावरण- दर्शनावरण- वेदनीया ऽन्तरायाणामसंख्येयगुणं स्वस्थाने मिथः समानम्, ततो मोहनीयस्या-ऽसंख्येयगुणम् । उक्तं च कषायप्राभृतचूर्णो - "ताधे अप्पा बहुअं जधा-णामागोदाणं द्विदिसंतकम्म थोवं, चदुपहं कम्माणं ठिदिसंतकम्मं तुल्लमसंख जगुणं, मोहणीयस्स ठिदिसन्तकम्म असंखं जगुण ।” इति । इतः प्रभृति मोहनीयस्या - पि स्थितिसत्त्वं प्रतिस्थितिघातेना - ऽसंख्येयगुणहीनं जायते ।
aarसेढी
ततः परमुक्तान्पबहुत्वक्रमेण स्थितिखण्ड संख्यसहस्र ष्वतिक्रान्तेषु सत्सु मोहनीयस्य स्थितिसत्त्वमेक प्रहारेणैव ज्ञानावरण-दर्शनावरण- वेदनीया - ऽन्तरायाणामधस्ताद संख्येयगुणं गच्छति, ज्ञानावरणादितोऽसंख्येयगुणहीनं जायते इत्यर्थः । इदमुक्तं भवति — इतः प्राग् ज्ञानावरणादीनां चतुर्णा स्थितिसवतो मोहनीयस्य स्थितिसत्त्वमसंख्येयगुणमासीत्, इदानीं पुनरेक स्थितिघातेन ज्ञानावरणादीनां स्थितिसत्त्वतो मोहनीयस्य स्थिति सच्चमसंख्येयगुणहीनं संजायते । इदन्त्ववधेयम्अनन्तरोक्तस्थितिसत्त्वा ऽल्पबहुत्वतः परं व्रजितानां संख्यातसहस्रस्थितिघातानां द्विचरम स्थितिघातं यावज्ज्ञानावरण-दर्शनावरण- वेदनीया - ऽन्तरायाणां स्थितिसत्त्वतो मोहनीयस्य स्थितिसत्त्वमसंख्येयगुणं भवति स्म, चरमस्थितिघातेन तु मोहनीयस्यैतावत्प्रभूतं स्थितिसत्त्वं घातयति, येन ज्ञानावरणदर्शनावरण- वेदनीया - ऽन्तरायाणां स्थितिसत्त्वतो मोहनीयस्य स्थिति सत्वमसंख्येयगुणहीनं भवति । एवमग्रेऽपि यत्रैकप्रहारेणेति वच्यते, तत्रेत्थमेव भावनीयम् । तदानीं स्थितिसत्त्वा ऽल्पबहुत्वं भण्यतेनामगोत्रयोः सर्वस्तोकं स्थितिसत्त्वं स्वस्थाने तु मिथस्तुल्यम्, ततो मोहनीयस्या - Sसंख्येयगुणम्, ततोऽपि ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायाणामसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यम् । उक्तं च कषायप्राभृतचूर्णी - "एदेण कमेण संखेज्जाणि ठिदिखण्डयसहस्साि गदाणि तदो णामागोदाणं ठिदिसंतकम्म थोवं, मोहणीयस्स ठिदिसंतकम्मम संख जगुण, चउण्हं कम्माण ठिदिसंतकम्म तुल्लमसंख ज्जगुणं ।” इति ।
ततः परमनन्तरोक्तस्थितिसत्त्वा ऽल्पबहुत्वक्रमेण संख्यसहस्रेषु स्थितिखण्डेषु व्यतीतेषु मोहनीयस्य स्थिति सत्वमेकप्रहारेणैव नामगोत्रयोरधस्तादसंख्येयगुणं गच्छति, नामगोत्रतोऽसंख्येयगुणहीनं जायते इत्यर्थः । इतः प्राग् नाम - गोत्रयोः स्थितिसत्त्वतो मोहनीयस्य यत्स्थितिसत्त्वमसंख्येयगुणमासीत्, तदतः प्रभृत्यसंख्येयगुणहीनं जायते । तदानीं स्थितिसत्त्वा ऽल्पबहुत्वं प्रतिपाद्यते — मोहनीयस्य स्थितिसत्त्वं सर्वाल्पम्, ततो नाम - गोत्रयोरसंख्येयगुणम्, स्वस्थाने तु मिथः सदृक्षम्, ततो ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायाणां स्थितिसत्त्वमसंख्येयगुणम्, स्वस्थाने तु परस्परं समानम् । उक्तं च कषायप्राभृतचूर्णो – “तदो ठिदिखण्डयपुघत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org