________________
स्थितिसत्त्वनिरूपणम् ]
निवृत्तिकरणाधिकारः
[ ५३
स्मिन् स्थितिघाते पूर्णे मोहनीयस्याऽपि स्थितिसत्कर्म पल्योपमसंख्येयभागमितं भवति । अत एव तदानीं सर्वेषां कर्मणां स्थितिसत्त्वं पल्योपमसंख्येयभागमात्रं भवति । उक्तं च कषायप्राभृतचूर्णी -- "तदो ठिदिखण्डए पुण्णे सत्तण्हं कम्माणं पलिदोवमस्स संख ज्जदिभागो ठिदिसंतकम्मं जाएं ।” इति । तदानीं स्थितिसत्त्वाऽल्पबहुत्वमित्थं निगदितव्यम् - नाम - गोत्रयोः स्थितिसत्त्वं सर्वस्तोकम्, ततो ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणां संख्येयगुणम्, ततोऽपि मोहनीयस्य संख्येयगुणम् ।
ततः परं संख्यातेषु स्थितिघातसहस्रेषु व्यतिक्रान्तेषु नाम - गोत्रयोः स्थितिसत्त्वं पल्योपमाऽसंख्येयभागप्रमाणं भवति । उक्तं च कषायप्राभृतचूर्णी - " तदो संखेज्जेसु हिदिखण्डयस हस्सेसु गदेसु णामागोदाणं पलिदोवमस्स असंखेज्जदिभागो ठिदिसंतकम्मं जादं ।" तदानीमपबहुत्वं विचार्यते - नाम - गोत्रयोः स्थितिसच्वं सर्वस्तोकं स्वस्थाने मिथः समानम्, तच्च पल्योपमाऽसंख्येयभागमानम्, ततो ज्ञानावरण- दर्शनावरण- वेदनीयाऽन्तरायाणामसंख्येयगुणम्, पल्योपम संख्येयभागमात्रत्वात्, स्वस्थाने तु मिथः सदृशम्, ततो मोहनीयस्य पल्योपमसंख्येयभागमितं भवदपि संख्येयगुणं भवति । उक्तं च कषायप्राभृतचूर्णौ - "ताघे अप्पाबहुअं- सव्वत्थोवं णामागोदाणं ठिदिसंतकम्मं, चउण्हं कम्माणं ठिदिसंतकम्मं तुल्लमसंखेज्जगुणं, मोहणीयस्स ठिदिसंतकम्मं संखेज्जगुणं ।" इति । इतः प्रभृति नामगोत्रयोः स्थितिसत्त्वं प्रतिस्थितिघातेना संख्येयगुणहीनं जायते ।
ततः परमनन्तरोक्ता - ऽल्पबहुत्वक्रमेण स्थितिखण्डेषु संख्यातसहस्रेषु व्यतीतेषु ज्ञानावरणदर्शनावरण- वेदनीयाऽन्तरायाणां स्थितिसचं पल्योपमा संख्येयभागप्रमाणं भवति । उक्तं च कषायप्राभृतचूर्णौ - - " तदो ठिदिखण्डयपुधत्तेण चउन्हं कम्माणं पलिदोवमस्स असंखेज्जदिभागो ठिदिसंतकम्मं जादं ।" मोहनीयस्य तु पल्योपम संख्येय भागप्रमाणं भवति । तदानीं स्थितिसच्चाऽल्पबहुत्वं भण्यते - नाम - गोत्रयोः सर्वस्तोकं स्थितिसत्कर्म, स्वस्थाने -तु मिथस्तुल्यम्, तच्च पल्योपमाऽसंख्यभागप्रमाणं भवति, ततो ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायाणां पल्योपमा - ऽसंख्येयभागमात्रं भवदप्यसंख्येयगुणं स्वस्थाने तु परस्परं सदृशम्, ततो मोहनीयस्या --ऽसंख्येयगुणम्, पल्योपमसंख्येयभागमात्रत्वात् । उक्तं च कषायप्राभृतचूर्णौ"ताचे अप्पाबहुअं - णामागोदाणं द्विदिसंतकम्मं थोवं, चउण्हं कम्माणं डिदिसंतकम्म तुल्लमसंखेज्जगुणं, मोहणीयस्स डिदिसंतकम्ममसंखेज्जगुणं ।” इति । इतः प्रभृति ज्ञानावरणादीनामपि स्थितिसच्चं प्रतिस्थितिघातेना संख्येयगुणहीनं जायते ।
ततो भूयः स्थितिखण्ड संख्य सहस्र ष्वतिक्रान्तेषु सत्सु मोहनीय कर्मणः स्थितिसत्कर्म पल्योपमा - संख्येयभागमानं भवति । उक्तं च कषायप्राभृतचूर्णो- “तदो ठिदिखण्डयपुधत्तेण मोहणीयस्स वि पलिदोवमस्स असंखेज्जदिभागो हिदिसंतकम्म जादं ।" इत्थमितः प्रभृति सर्वेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org