________________
५२ ]
aaraढी
[ गाथा - ३७
वेदनीया - न्तरायाणां देशोन सार्धपल्योपममात्रं स्थिति सच्चम्, मोहस्य पुनर्देशोन द्विवल्योपममात्रं भवति । तदानीमल्पबहुत्वं चिन्त्यते - नामगोत्रयोः सर्वस्तोकं स्थितिस्त्वम्, स्वस्थाने तु मिथस्तुल्यम्, तच्च पल्योपमसंख्येयभागमानं भवति । ततो ज्ञानावरण-दर्शनावरण- वेदनीया - ऽन्तरायाणां संख्येयगुणम् देशोनसापल्योपममितलात्, स्वस्थाने तु मिथ एकादृक्षम् । ततो ऽपि मोहनीयस्य विशेषाधिकम्, देशोनपल्योपमद्वयमात्रत्वाद । उक्तं च कषायप्राभृतचूर्णी - "ताधे अप्पाबहुअं - सव्वत्थोवं णामागोदाणं द्विदिसंतकम्मं चतुण्हं कम्माणं ट्ठिदिसंतकम्मं तुल्लं संखेजगुणं, मोहणीयस्स ठिदिसंतकम्मं विसेसाहियं ।” इति ।
1
i
अनेन स्थितिसत्त्वा ऽल्पबहुत्वक्रमेण स्थितिखण्ड संख्यातसहस्रेषु गतेषु सत्सु ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणामपि पल्योपममात्रं स्थितिसत्त्वं भवति, मोहनीयस्य तु त्रिभागाधिकपल्योपमप्रमितं जायते । न्यगादि च कषायप्राभृतचूर्णी - " देण कमेण ठिदिखण्डयपुधत्ते गदे तदो चउन्हें कम्माणं पलिदोवमट्ठिदिसंतकम्मं, ताधे मोहणीयस्स पलिदोवमतिभागुत्तरं ठिदिसंतकम्मं ।” अतः परं ज्ञानावरणादीनां प्रतिस्थितिघातेन स्थितिसत्त्वं संख्येयगुणहीनं भवति, व्याप्तेः प्रागुक्तत्वात् । मोहनीयस्य तु पूर्ववत् प्रतिस्थितिवातेन पल्योपमसंख्येयभागं नाशयति । तेन ज्ञानावरणादीनां पल्योपममात्रस्थितिसत्त्वभवनादेकस्मिन् स्थितिघाते पूर्णे ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायाणामपि स्थितिसत्वं पल्योपमसंख्येयभाग प्रमितं भवति । उक्तं च कषायप्राभृतचूर्णी - " तदो हिदिखण्डये पूणे चतुण्हं कम्माणं पलिदोवमस्स संखेज्जदिभागो हिदिसंतकम्मं ।" मोहनीयस्य तु देशोन त्रिभागोत्तरपल्योपममात्रं भवति । तदानीं स्थितिसस्वा ऽल्पबहुत्वं निगद्यते - नाम- गोत्रयोः स्थितिसचं सर्वस्तोकम्, तच्च पल्योपमसंख्येय भागमानम्, स्वस्थाने मिथस्तुल्यं भवति, ततो ज्ञानावरण-दर्शनावरणarater-sन्तरायाणां पल्योपमसंख्येयभागप्रमितं भवदपि संख्येयगुणम्, स्वस्थाने तु मिथः सदृशम्, ततो मोहनीयस्य संख्येयगुणम्, तस्य देशोन त्रिभागाधिकपल्योपममात्रत्वात् । उक्त च कषायप्राभृतचूर्णौ - "ताघे अप्पाबहुअं- सव्वत्थोवं णामागोदाणं द्विदिसंतकम्म, चदुहं कम्माणं ठिदिसंतकम्मं तुल्लं संखज्जगुणं, मोहणीयस्स ट्ठिदिसंतकम्मं संखज्जगुणं |" इति ।
1
अनेन स्थितिसवा पबहुत्वक्रमेण स्थितिघातसहस्रेषु ब्रजितेषु सत्सु मोहनीयस्य स्थितिसत्त्वं पल्योपममात्रं भवति । उक्तं च कषायप्राभृतचूर्णी - " तदो ठिदिखण्डयपुधत्तेण मोहणीयस्स ठिदिसंतकम्मं पलिदोवमं जादं ।” इतः परं प्रतिस्थितिघातेन मोहनीयस्थितिसवमपि संख्येयगुणहीनं भवति, व्याप्तेः प्रागुक्तत्वात् । इत्थमितः परं सर्वेषां कर्मणां प्रतिस्थितिघातेन स्थितिसत्त्वं संख्येयगुणहीनं जायते । तेन मोहनीयस्य पल्योपममात्रस्थितिसत्त्वभवनादेक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org