SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ स्थितिसत्त्वनिरूपणम् ] अनिवृत्तिकरणाधिकारः [ ५१ मोहनीयस्य स्थितिसत्कर्म पञ्चविंशतिसागरोपमचतुःसप्तभागप्रमाणम् (२५४४ ), ज्ञानावरणदर्शनावरण-वेदनीया-ऽन्तरायाणां पञ्चविंशतिसागरोपमत्रिसप्तभागमितम् (२५४३),नामगोत्रयोः पञ्चविंशतिसागरोपमद्विसप्तभागमानं (२५४२), भवतीत्यर्थः । उक्तं च कषायप्राभृतची-"एवं तीइंदियबीइंदियठिदिबन्धेण समगं जादं ।” इति । ततो भूयः संख्यातस्थितिबन्धसहखेषु व्यतिक्रान्तेषु स्थितिसत्त्वमेकेन्द्रियस्थितिबन्धेन सदृशं भवति,मोहनीयस्य सागरोपमचतुःसप्तभागप्रमाणम् (3) ज्ञानावरण-दर्शनावरण-वेदनीयाऽन्तरायाणां सागरोपमत्रिसप्तभागमात्रम् (3) नाम-गोत्रयोः सागरोपमद्विसप्तभागप्रमितं (3) भवतीत्यर्थः । उक्तं च कषायप्राभूतची-"तदो संखेन्जेसु हिदिखंडयसहस्सेसु गदेसु एइंदियठिदिबन्धेण समगं हिदिसंतकम्मं जादं।" अत्र कषायप्राभूतचूर्णिकारैः स्थितिखण्डसहस्रषु गतेष्वित्युक्तम् , स्थितिघाताद्धायाः स्थितिबन्धाद्धया तुल्यत्वेनाऽन्यतरोपादाने विरोधाभावात् । तेन वयमपीतः परं स्थितिबन्धसहस्रषु गतेष्वित्यस्य स्थाने स्थितिखण्डसहस्रेषु गतेष्वित्यभिधास्यामहे । एकेन्द्रियवन्धतुल्यस्थितिसत्त्वभवनात् संख्यातेषु स्थितिखण्डसहस्रषु गतेषु सत्सु नामगोत्रयोः स्थितिसत्त्वं पल्योपममात्रं भवति, ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां सार्धपल्योषममितं भवति, मोहनीयस्य तु पल्योपमद्वयमात्रं भवति । उक्तं च कषायप्राभूतचो -"तदो संखेजेसु हिदिखंडयसहस्सेसु गदेसु णामागोदाणं पलिदोवमट्टिदिसंतकम्मं जादं। ताधे चदुण्हं कम्माणं दिवढपलिदोवमहिदिसंतकम्म, मोहणीयस्स वि बेपलिदोवमठिदिसंतकम्म।" अत्र युक्तिस्तु स्थितिबन्धवदुपन्यसनीया, एवमग्रेऽपि । तदानी स्थितिसवा-ऽल्पबहुत्वमित्थं प्ररूपयितव्यम्-नामगोत्रयोः स्थितिसत्त्वं सर्वस्तोकम् , स्वस्थाने मिथस्तुन्यम् । ततो ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां विशेषाधिकम् , सार्धपल्योपममात्रत्वात् स्वस्थाने तु परस्परं तुल्यम् । ततो-ऽपि मोहनीयस्य विशेषाधिकम् , पल्योपमद्वयमात्रत्वात् । इतः परं नाम-गोत्रयोः स्थितिसत्त्वस्य संख्येयगुणहानिर्भवति, प्रतिस्थितिघातेन सत्तागतस्थितेः संख्येयबहुभागा विनाश्यन्त इत्यर्थः, यतः प्रभृति यस्य कर्मणः पल्योपममात्रं स्थितिसत्त्वं भवति, ततः परं प्रतिस्थितिघातेन तस्य कर्मणः स्थितिसत्त्वं संख्येयगुणहीनं भवतीति व्याप्तेः। शेषाणां पञ्चानां कर्मणां तु पल्योपमसंख्येयमागमितं स्थितिखण्डं विनाशयति । तेन नाम-गोत्रयोः पल्योपममात्रस्थितिसत्त्वभवनादेकस्मिन् स्थितिखण्डे घातिते नाम-गोत्रयोः स्थितिसत्त्वं पल्योपमसंख्येयभागप्रमाणं मवति । उक्तं च कषायप्राभूतचूर्णी-"एदम्हि द्विदिखंडये उक्किण्णे गामागोदाणं पलिदोवमस्स संखेनदिभागियं ठिदिसंतकम्मं ।” ज्ञानावरण-दर्शनावरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy