________________
५० ]
खवगसेढी
ततोऽसंज्ञितुल्यं स्थितिसत्त्वं तस्माद् बन्धवत् । तावज्ज्ञेयं यावदन्ता-ऽल्पबहुत्वं खलु न प्राप्येत ||३७|| इति पदसंस्कारः ।
'ततो' इत्यादि, 'ततः' मोहनीयस्य स्थितिबन्धः सर्वाल्पस्ततो ज्ञानावरण-दर्शनावरणाऽन्तरायाणामसंख्येयगुणस्ततो नाम - गोत्रयोरसंख्येयगुणस्ततो वेदनीयस्य विशेषाधिक इत्येवंरूपस्थितिबन्धा-ऽल्पबहुत्वभवनात् परं संख्येषु स्थितिबन्धसहस्रेष्वतिक्रान्तेषु 'असंज्ञितुल्यं' असंज्ञिस्थितिबन्धेन तुल्यं -सदृशं 'स्थितिसत्त्वं' आयुर्वर्ज सप्तकर्मणां स्थितिसत्कर्म भवति, मोहनीयस्य स्थितिसत्त्वं सागरोपमसहस्रचतुः सप्तभागप्रमितं (१०००x४ ) ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायाणां सागरोपमसह
6)
[ गाथा - ३७
स्त्रत्रिसप्तभागमानं (१००० -) नाम - गोत्रयोः सागरोपमसहस्र द्विसप्तभागमात्रं -) भवतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी - "एदेणेव कमेण संखेजाणि हिदिबन्ध सहसाणि गदाणि तदो ठिदिसंतकम्ममसण्णिठिदिबन्धेण समगं जादं ।" इति ।
Jain Education International
'ताउ' इत्यादि, 'तस्मात् ' असंज्ञिबन्ध तुल्यस्थितिसत्त्वभवनात्परं ' बन्धवत्' स्थितिबन्धवत् तावज्ज्ञेयम् यावद् 'अन्ता ऽल्पबहुत्वम्' चरमाऽल्पबहुत्वम् मोहनीयस्थितिसत्त्वं स्तोकं ततो ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां स्थितिसत्त्वमसंख्येयगुणं ततो नाम- गोत्रयोरसंख्येयगुणं ततो वेदनीयस्य विशेषाधिकमित्येवंलक्षणं खलु न प्राप्येत । इदमुक्तं भवति - सप्तानामपि कर्मणामसंज्ञिस्थितिबन्धतुल्यस्थितिसत्त्वभवनात् संख्यातेषु स्थितिबन्धेषु सहस्रेषु गतेषु सत्सु सप्तानां कर्मणां चतुरिन्द्रियस्थितिबन्धेन सदृशं स्थितिसच्चं भवति, मोहनीयस्य स्थितिसत्त्वं सागरोपमशतचतु:सप्तभागमितम् (2 ४), ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायाणां सागरोपशतत्रिसप्तभागमात्रम् (१००×३), नाम-गोत्रयोः सागरोपमशतद्विसप्तभागमानं (२००२), भवतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी - " तदो संखेज्जेसु ठिदिबन्धसहस्सेसु गदेसु चाउरिंदियबिन्घेण समगं जादं ।" इति ।
१००४४
१०००X२
७
ततः पुनः संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु त्रीन्द्रियस्थितिबन्धसमानं
स्थितिसखं भवति, मोहनीयस्य स्थितिसत्त्वं पञ्चाशत्सागरोपम चतुःसप्तभागप्रमितम् (२०१४), ज्ञानावरणादीनां चतुर्णां पञ्चाशत्सागरोपमत्रिसप्तभागप्रमितम् (२०x३ ), नाम-गोत्रयोस्तु पञ्चाशत्सागरोपमद्विसप्तभागप्रमित (५०X२ ), भवतीत्यर्थः । ततः संख्यातेषु सहस्रस्थितिबन्धेषु ब्रजितेषु सत्सु द्वीन्द्रियस्थितिबन्धसदृशं स्थितिसत्त्वं भवति,
For Private & Personal Use Only
www.jainelibrary.org