________________
स्थितिसत्त्वम् ] अनिवृत्तिकरणाधिकारः
[ ४६ भवनात् संख्यातेषु स्थितिबन्धसहस्रेषु जितेषु सत्सु 'शेषत्रिंशत्कानां' शेषत्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामित्यर्थः, स्थितिबन्ध एकप्रहारेण 'विंशतिकयो।' नाम-गोत्रयोः 'अधः' अधस्ताद् असंख्येयगुणो गच्छति, नामगोत्रतोऽसंख्येयगुणहीनो जायते, ज्ञानावरणदर्शनावरणाऽन्तरायाणामप्रशस्ततरत्वेन प्रभूतहानिसंभवादित्यर्थः ॥ ३५ ॥ तदानीं नाम-गोत्रतो वेदनीयस्य स्थितिबन्धः कियान् भवति ? इत्यत आह
ताहे वीसगबंधा तइयस्स विसेसअहिगो खु । एवंकमेण गच्छइ बंधो अह भणिमु ठिइसंतं ॥३६॥ (उपगीतिः) तदा विंशतिकबन्धात् तृतीयस्य विशेषाधिकः खलु ।
एवंक्रमेण गच्छति बन्धोऽथ भणामः स्थितिसत्त्वम् ॥ ३६ ॥ इति पदसंस्कारः। 'ताहे' इत्यादि, 'तदा' यदा ज्ञानावरणादीनां स्थितिबन्धस्या-ऽधस्तादसंख्यगुणो नामगोत्रयोः स्थितिबन्धो गच्छति, तदानीमित्यर्थः, 'विंशतिकबन्धात्' नाम-गोत्रयोः स्थितिबन्धात् 'तृतीयस्य' वेदनीयकर्मणः स्थितिबन्धो विशेषाधिकः खलु-निश्चयेन जायते, न ततो-ऽधिकः, विंशतिसागरोपमकोटीकोटिस्थितिकनामगोत्रतस्त्रिंशत्सागरोपमकोटीकोटीस्थितिकवेदनीयस्थितिबन्धस्य त्रिद्विभागगुणसंभवात् । तदानी स्थितिबन्धाल्पबहुत्वमित्थं निरूपयितव्यम्-मोहनीयस्य स्थितिबन्धः सर्वस्तोकः, ततो ज्ञानावरण-दर्शनावरण-ऽन्तरायाणामसंख्येयगुणः, ततो नाम-गोत्रयोरसंख्येयगुणः, ततो वेदनीयस्य विशेषाधिकः । उक्तं च कषायप्राभूतचों-"एवं संखेजाणि ठिदिबन्धसहस्साणि गदाणि, तदो अण्णो हिदिबन्धो एक्कसराहेण मोहणीयस्स हिदिबन्धो थोवो, तिण्हं घादिकम्माणं हिदिबन्धो असंखेज्जगुणो, णामागोदाणं हिदिबन्धो असंखेजगुणो, वेदणीयस्स हिदिबन्धो विसेसाहिओ।" 'एवंकमेण' इत्यादि, ‘एवंक्रमेण' चरमाऽल्पबहुत्वक्रमेण 'वन्धो' अभिनवोऽभिनवः स्थितिबन्धो 'गच्छति'' व्यतिक्रामति ।
स्थितिबन्धं विस्तरतो-ऽभिधाय सम्प्रति स्थितिसत्त्वं निजिगदिषुराह-'अह' इत्यादि, 'अथ' अथशब्दोऽनन्तरार्थकः, स्थितिबन्धप्ररूपणा-ऽनन्तरमित्यर्थः, 'स्थितिसत्त्वं' सप्तानामप्यायुवर्जानां कर्मणां स्थितिसत्कर्म 'भणामः' शब्दतः प्रतिपादयिष्यामः ॥ ३६॥ प्रतिज्ञातमेवा-ऽऽह
तत्तो असण्णितुल्लं ठिइसंतं ताउ बंधव्व । ता णेयं जावंतप्पबहुत्तं खलु ण पाविज॥३७॥ (उपगीतिः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org