________________
४८] खवगसेढी
[गाथा-३५ आसीत्, मोहनीयस्य तु सम्प्रति नामगोत्रतोऽसंख्येयगुणहीनो जातः । तेन मोहनीयस्य नामगोत्रयोर्ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां च स्थितिबन्धः क्रमेणाऽसंख्यगुणो भवति । तथाहि-मोहनीयस्य स्थितिबन्धः सर्वस्तोकः, ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु मिथस्तुल्यः, ततोऽपि ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणामसंख्येयगुणः, स्वस्थाने तु मिथः सदृक्षः । उक्त च कषायप्राभूतचूर्णी-"एदेण कमेण संखेज्जाणि हिदिबन्धसहस्साणि गदाणि, तदो जम्हि अण्णो हिदिबन्धो, तम्हि एक्कसराहेण मोहनीयस्स हिदिबन्धो थोवो, णामागोदाणं हिदिबन्धी असंखेजगुणो, चतुण्डं कम्माणं हिदिबन्धो तुल्लो असंखेजगुणो।" इति ॥ ३४ ॥
नामगोत्रा-उपेक्षया मोहनीयस्थितिबन्धस्या-ऽसंख्येयगुणहीनत्वभवनात् यद्भवति, तद्वक्त - काम आह
तो वेअणिजबंधो सेसाणं तीसगाण उवरि उ। तो सेसतीसगाणं टिइबंधो वीसगाए अहो ॥३५॥ तस्माद् वेदनीयबन्धः शेषाणां त्रिशकानामुपरि तु ।
तस्मात् शेषत्रिंशत्कानां स्थितिबन्धो विंशतिक योरधः ॥ ३५ ॥ इति पदसंस्कारः । 'तो' इत्यादि, 'असंखगुगो एकपहारेणेई' इति पदत्रयं पूर्वतोऽनुवर्तते । 'तस्मात्' नामगोत्रस्थितिवन्धतो मोहनीयस्थितिबन्धस्याऽसंख्येयगुणहीनत्वभवनात् संख्यातेषु स्थितिवन्धसहसेषु गतेषु 'वेदनीयबन्धः' वेदनीयकर्मणः स्थितिबन्ध एकप्रहारेण 'शेषाणां त्रिंशत्कानां' ज्ञानावरणदर्शनावरणाऽन्तरायाणामुपरि असंख्यगुण एति-गच्छति, ज्ञानावरणादितो-ऽसंख्येयगुणो जायते, ज्ञानावरणादीनामप्रशस्ततरत्वेन प्रसूतहानिसंभवादिति भावः । 'तु'तुः पादपूरण । इदमुक्तं भवतिइतः प्रागुत्तरोत्तरस्थितिबन्धोऽसंख्येयगुणहीनो भवन् ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां मिथः समान आसीत्, सम्प्रत्येकहेलयैव ज्ञानावरण-दर्शनावरणाऽन्तरायाणां प्रभूतः स्थितिबन्धो हीयते, येन वेदनीयतो ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणामसंख्येयगुणहीनः संजायते । ततश्च ज्ञानावरणादितो वेदनीयस्य स्थितिबन्धोऽसंख्येयगुणो भवति । तदानीं स्थितिबन्धाल्पबहुत्वं चिन्त्यते-मोहनीयस्य स्थितिबन्धः सर्वस्तोकः, ततो नाम-गोत्रयोरसंख्येयगुणः,ततो ज्ञानावरण-दर्शनावरणा-न्तरायाणामसंख्येयगुणो भवति, ततो-ऽपि वेदनीयास्या-ऽसंख्येयगुणः । उक्तं च कषाय प्राभूतचूर्णी-"एदेण कमेण संजाणि हिदिबंधसहस्साणि गदाणि, तदोजम्हि अण्णो हिदिबंधो तम्हि एक्कसराहेण मोहणीयस्स ठिदिबंधो थोवो, णामागोदाणं ठिदिबंधो असंखजगुणो तिण्हं घादिकम्माणं ठिदिबंधो असंख जगुणो, वेदणीयस्स ठिदिबंधो असंखजगुणो । 'तो' इत्यादि, 'तस्मात्' घातित्रयतो वेदनीयस्थितिबन्धस्या-ऽसंख्येयगुणत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org