________________
स्थितिबन्धनिरूपणम् ]
निवृत्तिकरणाधिकारः
[ 800
ततः संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः क्रमेण ज्ञानावरणादीनां नाम -गोत्रयोश्चाऽधस्ताद् गच्छति, तदाविविकीषु राह
―
ता संखगुणो एकपहारेणेइ तीसगाण हो ।
मोहबंध तो बीसगट्ठा कमेण - Sसंखगुणो ॥ ३४ ॥ (गीतिः)
तस्मादसंख्येगुरण एकप्रहारेणैति त्रिंशत्कानामधः ।
मोहस्थितिबन्धस्ततो विंशतिका-ऽधस्तात् क्रमेणा - ऽसंख्यगुणः ||३४|| इति पदसंस्कारः ।
'ताउ' इत्यादि, ' तस्मात् ' मोहनीयकर्मणः पल्योपमा - ऽसंख्येय भागप्रमाणस्थितिबन्धभवनात् स्थितिबन्धसंख्यसहस्र षु गतेषु 'एक०' त्ति "लुक्" (सिद्धहेम०८-१-१०) इति सन्धिसूत्रेण 'ए' ति पदस्थे एकारे परे णकारोतरा-कारस्य लोपो जातः सन्धिविश्लेषे पुनरकार: प्राप्त इति कृत्वा 'एक पहारेख ' ति 'एकप्रहारेण' एकहेलयैव 'त्रिंशत्कानां ' ज्ञानावरण-दर्शनावरणवेदनीया - ऽन्तरायाणामधो ऽसंख्येयगुणो 'मोहस्थितिबन्धः, मोहनीयकर्मणः स्थितिबन्धः 'एति' गच्छति, एकप्रहारेण ज्ञानावरणादितो मोहनीयस्य स्थितिबन्धो ऽसंख्येयगुणहीनो जायते इत्यर्थः, तत्प्राक्तना मोहनीयसंख्येय सहस्र स्थितिबन्धा ज्ञानावरणादितो ऽसंख्येयगुणवृद्धा व्यतिक्रान्ताः, सम्प्रत्यनन्तरपूर्वस्थितिबन्धाऽपेक्षया मोहनीयस्थितिबन्धस्यैतावद्धानिर्भवति, येन ज्ञानावरणादितो ऽसंख्येयगुणहीनो मोहनीयस्थितिबन्धो जायते, मोहनीयस्या- प्रशस्ततमत्वात् प्रभुता हानिर्न विरुध्यते इति भावः । तदानीमल्पबहुत्वमित्थं प्ररूपयितव्यम् - नाम - गोत्रयोः सर्वस्तोकः स्थितिबन्धः स्वस्थाने तु मिथस्तुल्यः, ततो मोहनीयस्या - ऽसंख्येयगुणः, ततो ज्ञानावरण- दर्शनावरण- वेदनीयाSन्तरायाणां स्थितिबन्धो ऽसंख्येयगुणः, स्वस्थाने तु मिथः समानः । उक्तं च कषायप्राभृतचूर्णो - "एदेण कमेण संखेजाणि हिदिबन्धसहस्साणि गदाणि तदो जम्हि अण्णो seबंध तहि एक्कसराहेण णामागोदाणं द्विदिबन्धो धोवो, मोहणीयस्स डिदि - बन्धो असंखेजगुणो, चदुन्हं कम्माणं द्विदिबंधो तुल्लो असंखेज्जगुणो ।” इति ।
Jain Education International
'तो' इत्यादि, 'ततः ' ज्ञानावरणाद्यपेक्षया मोहनीयस्थितिबन्धस्या- ऽसंख्येयगुणहीनत्वभवनात् स्थितिबन्धसंख्यातसहस्रपु गतेषु मोहनीयस्थितिबन्ध एकप्रहारेण 'विंशतिका-ऽधस्तात् ' नाम - गोत्रयोरधस्तादसंख्येयगुण एति, नामगोत्रतो ऽसंख्येयगुणहीनो जायते मोहनीयस्या प्रशस्वतमत्वेन प्रभूतहानिसम्भवादित्यर्थः । इदमुक्तं भवति - इतः पूर्व ये संख्येयसहस्राणि मोहनी - यस्य स्थितिबन्धा व्यतिक्रान्ताः, ते सर्वे नामगोत्रयोः स्थितिबन्ध तो - ऽसंख्येयगुणवृद्धाः, सम्प्रत्येकहेलयैव नामगोत्रतो मोहनीय स्थितिबन्धो ऽसंख्येयगुणहीनो जायते । तदानीमल्पबहुत्वमभिधित्सुराह - "कमेण " इत्यादि, प्रागपि नामगोत्रयोः स्थितिबन्धतो ज्ञानावरणादीनामसंख्येयगुण
For Private & Personal Use Only
www.jainelibrary.org