________________
४६ ] खरगसेढी
[ गाथा-३३ न्धसहस्रेषु व्यतिक्रान्तेषु 'मोहस्य' मोहनीयस्य कर्मणः 'पल्या-ऽसंख्यांशः' पल्योपमाऽसंख्येयभागमात्रः स्थितिवन्धो भवतीत्यर्थः । इत्थं तदानीं सप्तानामपि कर्मणां स्थितिबन्धः पन्योपमाऽसंख्ययभागमितो भवति । उक्तं च कषायप्राभूतचूर्णी--"तदो संखेज्जेसु हिदिबन्धसहस्सेसु गदेसु मोहणीयस्स वि पलिदोवमस्स असंखेजदिभागो ठिदिबन्धो जादो।" इतः प्रभृति सप्तानामपि कर्मणां स्थितिबन्धः पल्योपमा-ऽसंख्येयभागमात्रस्तावद् वक्तव्यः ,यावत् स्थितिबन्धे विशेषो नाभिधीयेत ।
यदा मोहनीयस्य स्थितिवन्धः पल्योपमाऽसंख्येयभागप्रमितो भवति, तदा स्थितिबन्धाल्पबहुत्वं भएयते-नाम-गोत्रयोः सर्वाल्पः स्थितिबन्धः, स्वस्थाने तु मिथः समानः, ततो ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततो मोहनीयस्याऽसंख्येयगुणः । उक्तं च कषायप्राभृतचूर्णी - "जाधे पढमदाए मोहणीयस्स पलिदोवमस्स असंखेज्जदिभागो ठिदिबन्धो जादो, ताधे अप्पाबहुअं-णामागोदाणं ठिदिवन्धो थोवो, चदुण्हं कम्माणं ठिदिबन्धो तुल्लो असंखेजगुणो, मोहणीयस्स हिदिबन्धो असंखेजगुणो।” इतः प्रभृति मोहनीयस्या-ऽप्युत्तरोत्तरस्थितिबन्धो-ऽसंख्येयगुणहीनो भवति ।
यदा मोहनीयस्य पल्योषमा-ऽसंख्येयभागमितो भवति, तदा स्थितिसत्वं विभणिषुराह'न्तोलक्खं' इत्यादि, सन्धिविश्लेषे सत्यकारे प्राप्ते अन्तोलक्खंति 'अन्तर्लक्षम्' लक्षस्य-सागरोपमशतसहस्राणामन्तर-मध्ये सागरोपमसहस्रपृथक्त्वमित्यर्थः, 'सत्त्वं' स्थितिसत्कर्म 'सप्तानाम्' आयुर्वर्जानां कर्मणां भवतीति शेषः । अयं भावः-यदा नाम-गोत्रयोः स्थितिबन्धः पल्योपममात्रोऽभवत्, तदा-ऽऽयुर्वर्जानां सर्वेषां कर्मणां यत् स्थितिसत्वं सागरोपमशतसहस्रपथक्त्वमात्रमासीत्, तत् संख्यातसहस्रः स्थितिघातर्घातितं सदिदानी सागरोपमसहस्रपृथक्त्वप्रमितं भवति । उक्तं च कषायप्राभृतचूौँ-"ताधे हिदिसंतकम्मं सागरोपमसहस्सपुधत्तमंतोसदसहस्सस्स।" ॥ ३३ ॥
* ज्ञानावरणादीनां पल्योपमा-ऽसंख्येयभागप्रमितस्थितिबन्धभवनादुक्तस्थितिबन्धा-ऽल्पबहुत्वक्रमेण संख्यातेषु स्थितिबन्धसहस्रषु गतेषु सत्सु मोहनीयस्य दूरापकृष्टि प्राप्तस्य जन्तोः पल्योपमसंख्येयभागमितश्चरमस्थितिबन्धो जायते, ततो मोहनीयस्य स्थितिबन्धतो-ऽसंख्येयबहुभागा अपगच्छन्ति, एकभागश्च बध्यते । तदानीं मोहनीयस्य प्रथमः पल्योपमा-ऽसंख्येयभागमानः स्थितिबन्धो भवतीति जयधवलाकाररुक्तम् । अक्षराणि त्वेवम् – “एवमेदेणाणंतरपरूविदेण अप्पाबहुअविहाणेण पुणो वि संखेजसहस्समेत्तेसु दिदिबंधेसु वदिक्कितेसु मोहणीयस्स वि दूरावकिट्टिविसये जहाकम संपत्ते तदो पहुडि तस्स वि असंखेज्जे भागे दिदिबंधेणोसरमाणस्स पलिदोवमस्सासंखेजदिभागिओ पढमो दिदिबंधो समाढतो त्ति ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org