________________
[ ४५
स्थितिबन्धनिरूपणम् ]
अनिवृत्तिकरणाधिकारः प्रभृति नाम-गोत्रयोरुत्तरोत्तरस्थितिबन्धोऽसंख्यातगुणहीनो जायते, शेषाणां तु पूर्ववत् संख्यातगुणहीनो भवति ॥ ३२ ॥
निरुक्ता-ऽल्पबहुत्वक्रमेण संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु ज्ञानावरणादीनां मोहनीयस्य च स्थितिबन्धमाविश्चिकीर्ष राह
तो तीसगाण पल्लस्स असंखंसो तो य मोहस्स। पल्लअसंखंसोऽन्तोलक्खं संतं य सत्तण्हं ॥३३॥ ततस्त्रिशत्कानां पल्यस्या-ऽसंख्यांशस्ततश्च मोहस्य ।
पल्या-ऽसंख्यांशो-ऽन्तर्लक्षं सत्त्वं च सप्तानाम् ।। ३३ ।। इति पदसंस्कारः । 'तो' इत्यादि, 'ततः' नाम-गोत्रयोः स्थितिबन्धस्य पल्योपमाऽसंख्येयभागमात्रत्वभवनात् स्थितिबन्धसहस्रेषु गतेषु 'त्रिंशत्कानां' ज्ञानावरण-दर्शनावरण वेदनीया-ऽन्तरायाणां बन्धः ‘पल्यस्याऽसंख्यांशः' पल्योपमा-ऽसंख्येयभागप्रमितो भवति । उक्तं च कषायप्राभूतचूर्णो-“तदो संखेजेसु ठिदिवन्धसहस्सेसु गदेसु तिण्हं घादिकम्माणं वेदणोयस्स च पलिदोवमस्स असंखेज दिभागो ठिदिवन्धो जादो।" यदा ज्ञानावरणादीनां स्थितिबन्धः पल्योपमाऽसंख्येयभागमितो भवति, तदा स्थितिबन्धाऽल्पबहुत्वं निगद्यते-नाम-गोत्रयोः सर्वस्तोकः स्थितिबन्धः, स च पल्योपमाऽसंख्येयभागप्रमाणो भवति, स्वस्थाने तु मिथस्तुल्यः । ततो ज्ञानावरणदर्शनावरण-वेदनीया-ऽन्तरायाणां स्थितिबन्धः पल्योपमाऽसंख्येयभागमात्रो भवन्नप्यसंख्येयगणो भवति । ततो मोहनीयस्या-ऽसंख्येयगणः, पल्योपमसंख्येयभागमात्रत्वात् । उक्तं च कषायप्राभूतचूर्णी-"ताधे अप्पाबहुअं-णामागोदाणं ठिदिबन्धो थोवो, चउण्हं कम्माणं ठिदिबन्धो असंखेजगुणो, मोहणीयस्स ठिदिबन्धो असंखेजगुणो।" ततो ज्ञानावरणादीनामप्युत्तरोत्तरस्थितिबन्धो-ऽसंख्यातगणहीनः प्रवर्तते ।
मोहनीयस्य स्थितिबन्धमाविश्चिकीर्ष भणति-'तओं य' इत्यादि, 'ततश्च' ज्ञानावरणादीनां पन्योपमा-ऽसंख्येयभागप्रमाणस्थितिबन्धभवनाच्च प्रागुक्ता-ऽल्पबहुत्वक्रमेण संख्यातेषु स्थितिव
अनन्तरोत्ता-ऽल्पबहुत्वक्रमेण संख्यातस्थितिबन्धेषु सहस्रषु गतेषु ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायाणां चरमः पल्योपमसंख्येयभागमानः स्थितिबन्धो दूरापकृष्टिसंज्ञको भवति । ततश्चतुणा ज्ञानावरणादीनामसंख्येयबहुभागाः स्थितिबन्धतोऽपगच्छन्ति । तेन ज्ञानावरणादीनां प्रथमस्थितिबन्धः पल्योपमाऽसंख्येयभागमात्रो भवतीति जयधवलाकाराः । अक्षराणि त्वेवम् --"एवमेदेण अप्पाबहुअविधिणा पुणो वि संखेज्जसहस्समेत्तेसु द्विदिबंधेसु समइक्कतेसु तदो णाणावरण-दसणावरण वेदणीय-अंतराइयाणं पि दुरावकिट्टीविसथे संपत्ते तदो प्पहुडि तेसि पि असंखेज्जे भागे दिदिबन्धेणोसरमाणस्स पढमे
पलिदो० असंखे० भागिए पडिबंधे जादे तत्तो पाए अण्णारिसमप्पाबहुअं पयट्टदि ।" Jain Education International
For Private & Personal Use Only
www.jainelibrary.org