SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ४४ ] खबगसेढी [गाथा-३२ ३-१-४०) इति सूत्रेणा-ऽनतिवृत्तौ अव्ययीभावसमासः, तुरवधारणे यथाक्रममेवेत्यर्थः, स्थितिबन्धः संख्यगणो भवति । इदमुक्तं भवति-मोहनीयस्य पल्योपममात्रे स्थितिबन्धे पूर्णे नाम-गोत्रयोः सर्वाल्पः स्थितिवन्धः, स च पल्योपमसंख्येयभागमितः, स्वस्थाने मिथस्तुल्यः, ततो ज्ञानावरणदर्शनावरण-वेदनीया-ऽन्तरायाणां पल्योपमसंख्येयभागमात्रो भवन्नपि संख्येयगुणो भवति, ततो मोहनीयस्य संख्येयगणो भवति, सोऽपि पल्योपमसंख्येयभागमात्रः, प्राक्तनस्थितिबन्धस्य पल्योपममात्रत्वेन सर्वेषां कर्मणां पल्योपममात्रस्थितिवन्धभवनादूर्ध्वमुत्तरोत्तरस्थितिबन्धस्य संख्येयगणहानिदर्शनात् । उक्तं च कषायप्राभूतचूर्णी-"एदम्हि हिदिबंधे पूण्णे मोहणीयस्स हिदिबंधो पलिदोवमस्स संखेज्जदिभागो चेव । ताधे वि अप्पाबहुअं-णामागोदाणं हिदिबंधो थोवो, णाणावरण-दसणावरण-वेदणीय-अन्तराइयाणं हिदिबन्धो संखेज्जगुणो, मोहणीयस्स हिदिबन्धो संखेजगुणो।" इति । 'तो' इत्यादि, 'ततः' अनन्तरोक्तस्थितिबन्धाल्पबहुत्वतः संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु 'विंशतिकयोः' नाम-गोत्रयोः स्थितिवन्धः 'पल्या-ऽसंख्येयभागमितः' पल्योपमाऽसंख्येयभागमितो जायते । शेषाणां पञ्चानां तु पूर्ववत्पल्योपमसंख्येयभागप्रमितः स्थितिबन्धो भवति । उक्तं च कषायप्राभृतचूर्णी-"एदेण कमेण संखेजाणि द्विदिबन्धसहस्साणि गदाणि, तदो अपणो हिदिबन्धो,जाधे णामागोदाणं पलिदोवमस्स असंखेजदिभागों, ताधे सेसाणं कम्माणं हिदिबंधो पलिदोवमस्स संखेजदिभागो ।" इति । नामगोत्रयोः पल्योपमा-ऽसंख्येयभागमिते स्थितिवन्धे जाते स्थितिबन्धाल्पबहुत्वमित्थमभिधातव्यम्नाम-गोत्रयोः सर्वस्तोकः स्थितिवन्धः, पल्योपमा-ऽसंख्येयभागमात्रत्वात, ततो ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां स्थितिबन्धो-ऽसंख्येयगुणः, तस्य पल्योपमसंख्येयभागमात्रत्वात्, ततो मोहनीयस्य स्थितिबन्धः पल्योपमसंख्येयभागमितो भवन्नपि संख्येयगणो भवति । उक्तं च कषायप्राभूतचूर्णी-"ताधे अप्पाबहुअं-णामागोदाणं ठिदिबन्धो थोवो, चदुण्हं कम्माणं ठिदिबन्धो असंखेजगुणो, मोहणीयस्स ठिदिबन्धो संखेजगुणो।" ततः ___ अनन्तरोक्ताल्पबहुत्वक्रमेण संख्येयेषु स्थितिबन्धसहस्रषु गतेषु सत्सु नाम-गोत्रयोः पत्योपमा. संख्येयभागप्रमाणश्चरमस्थितिबन्धो दूरापकृष्टिसंज्ञको भवति । तद्वयाख्या च कर्मप्रकृतिग्रन्थे-ऽस्माभिरुपशमनाकरणटीकायां कृता, ततोऽवसेया। दूरापकृष्टिसंज्ञकबन्धतः परं नामगोत्रयोरसंख्येयबहुभागाः स्थितिबन्धतोऽपगच्छन्ति । तेन तदानीं नामगोत्रयोः प्रथमस्थितिबन्धः पल्योपमा-ऽसंख्येयभागप्रमाणो भवतीत्याहुर्जयधवलाकाराः । तथा च तद्ग्रन्थः- "एवमेदेण अप्प/बहुविहिणा सव्वेसि कम्माणं पलिदो०संखेज्जभागिगेसु संखेज्जेसु दिदिबंधसहस्सेलु गदेसु तदो णामागोदाणं वा पच्छिमे पलिदोवमस्स संखेज्ज. भागिगे ट्ठिदिबंधे दूरावकिट्टिसंणिदे संपत्ते तदो असंखेज्जे भागे दिदिबंधेणोसरमाणस्स जाधे णामागोदाणं पलिदो असंखभागिओ पढमो दिदिबंधो जादो। ताधे अण्णारिसमप्पाबहुअं होदि त्ति।" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy