________________
स्थितिबन्धनिरूपणम् ]
निवृत्तिकरणाधिकारः
[ ४३
हिदिबंधो धोवो, चटुण्हं कम्माणं द्विदिबंधो संखेज्जगुणो मोहणीयस्स विदिबंधो संखेज्जगुणो ।” इति ॥ ३० ॥
ततः परं संख्यातेषु स्थितिबन्धसहस्रेषु वजितेषु स्थितिबन्धमाविश्चिकीषु राहमोहस्स पल्लमेत्तो साणं पल्लसंखभागभियो । तापरं सव्वेसिंकम्माणं संखगुणहीणो ॥ ३१ ॥
मोहस्य पल्यमात्रः शेषाणां पल्यसंख्यभागमितः ।
तस्मात्परं सर्वेषां कर्मणां संख्यगुणहीनः ॥ ३१ ॥ इति पदसंस्कार |
'मोहस्स' इत्यादि, निरुक्तस्थितिबन्धाऽल्पबहुत्वक्रमेण संख्यातेषु सहस्रेषु स्थितिबन्धेषु व्रजितेषु सत्सु 'मोहस्य' मोहनीय कर्मणः 'पल्यमात्र ः ' एकपल्योपममात्रः स्थितिबन्धो जायते, 'शेषाणां उक्तोद्धरितानां नाम - गोत्र - ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायरूपाणां ' पल्यसंख्य भागमितः' पल्योपमसंख्येयतमभागप्रमाणः स्थितिबन्धो भवति । उक्तं च कषायप्राभृतचूर्णी"एदेणेव कमेण संखेज्जाणि हिंदिबन्धसहस्साणि गदाणि, तदो मोहणीयस्स पलिदोव महिदिगो बंधो, सेसाणं कम्माणं पलिदोवमस्स संखेज्जदिभागो हिदिबंधो ।" 'ता पर' इत्यादि, 'तस्मात् ' मोहनीयस्य पल्योपममात्र स्थितिबन्धभवनात् परं 'सर्वेषां कर्मणां ' आयुर्वजनां सप्तानामपि कर्मणां स्थितिबन्धः संख्यगुणहीनो भवति, प्राक्तन स्थितिबन्धत उत्तरोत्तरस्थितिबन्धः संख्ये यगुणेन हीनो हीनतरो जायते इत्यर्थः ॥ ३१ ॥
मोहस्य पल्योपममात्रे स्थितिबन्धे पूर्णे सत्यारभ्यमाणस्थितिबन्धस्याऽल्पबहुत्वमभिधि
त्सुराह
पुणे बंधेऽणुकमं तु वीसगाई संखगुणो । तो वीस गाण जाय पलिया संखेजभागमि
Jain Education International
||३२|| ( उपगीतिः)
पूर्णे बन्धेनुक्रमं तु विंशतिकादीनां संख्यगुणः ।
ततो विंशतिकयोर्जायते पल्योपमाऽसंख्येयभागमितः ॥ ३२ ॥ इति पदसंस्कारः ।
'पुणे' इत्यादि, तत्र 'बंधे' त्ति एकवचननिर्देशात् एकस्मिन् बन्धे स्थितिबन्धे 'पूर्णे' समाप्तिं गते, मोहनीयस्य यः पल्योपममात्रः स्थितिबन्धः प्रारब्धः, तस्मिन् पूर्णे इत्यर्थः, 'विंशतिकादीनां विंशतिसागरोपमकोटिकोटिस्थितिकत्रिंशत्सागरोपमकोटिकोटिस्थितिकचत्वारिंशत्सागरोपमकोटिकोटिस्थितिकरूपाणां नाम गोत्रयोर्ज्ञानावरण-दर्शनावरण - वेदनीया - ऽन्तरायाणां मोहनीयस्य चेत्यर्थः, 'अनुक्रमं तु' क्रममनतिक्रम्य "योग्यता- वीप्सार्था ऽनतिवृत्तिसादृश्ये" (सिद्धहेम •
For Private & Personal Use Only
www.jainelibrary.org