________________
४२ ]
. खवगसेढी
[ गाथा-३० संखंसेगतिभागुत्तरपल्लाइ खलु वीसगाईणं। ताउ परं तीसाणं तहेव संखेजगुणहीणो ॥३०॥
संख्यांशैकत्रिभागोत्तरपल्यानि खलु विंशतिकादीनाम् ।
तस्मात्परं त्रिंशतां तथैव संख्येयगुणहीनः ॥ ३० ।। इति पदसंस्कारः । 'संख०' इत्यादि, अनन्तरोक्ता-ऽल्पबहुत्वक्रमेण संख्यातेषु स्थितिबन्धेषु गतेषु सत्सु 'विंशतिकादीनां विंशतिकत्रिंशत्कचत्वारिंशत्कानां-नामद्विक-ज्ञानावरणचतुष्क-मोहनीयानां क्रमेण स्थितिवन्धः संख्यांशैकत्रिभागुत्तरपल्यानि भवति, खलु क्यालङ्कारे । एतदुक्तं भवति-प्रागुक्ता-ऽल्पवहुत्वक्रमेण संख्यातेषु स्थितिबन्धसहखेबु गतेषु सत्सु नामगोत्रयोः स्थितिबन्धः पल्योपमसंख्येयभागमानः, ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां पल्योपममात्रः, मोहनीयस्य तु त्रिभागोत्तरपल्योपममितो जायते । यदुक्तं कषायमाभृतचूर्णी--"एदेण संखेजाणि विदिबंधसहस्साणि गदाणि, तदो णाणावरणीय-दसणावरणीय-वेदणीय-अंतराइयाणं पलिदोवमहिदिगो बंधो जादो । ताधे मोहणीयस्सतिभागुत्तरपलिदोवमहिदिगो बंधो जादो।" इति । इदं वचनं युक्तिमदेव । तथाहि-यदि त्रिंशत्सागरोपमकोटिकोटिस्थितिकानां ज्ञानावरणादीनां स्थितिबन्ध एकपल्योपममात्रो जायते, तर्हि चत्वारिंशत्सागरोपमकोटिकोटिस्थितिकस्य मोहनीयस्य स्थितिवन्धः कियान् भवेदिति त्रैराशिकेन [३० सा० को-को० । ४० सा-कोठको० । १ पल्यो० । लब्धम् १३पल्यो०। मोहनीयस्य स्थितिबन्धस्त्रिभागाधिकपल्योपममात्रः साध्यते ।
'ताउ परं'इत्यादि, 'तस्मात'ज्ञानावरणादीनां पल्योपममात्रस्थितिबन्धभवनात परं त्रिंशतांत्रिंशसागरोपमकोटिकोटिस्थितिकानां ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणामित्यर्थः, तहेवत्ति 'तथैव' तथाशब्दः साम्ये, नामगोत्रवन स्थितिबन्धः संख्येयगुणहीनो भवतीति शेषः, प्राक्तनस्थितिबन्धतो ज्ञानावरणादीनां संख्येयगुणहीनः पल्योपमसंख्येयभागमितः स्थितिबन्धो भवतीत्यर्थः। उक्तं च कषायप्राभृतचूर्णी-"तदो अण्णो हिदिवंधो चहुण्हं कम्माणं संखेज्जगुणहीणो।” इत्थं नाम-गोत्र-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणामुत्तरोत्तरस्थितिबन्धः संख्येयगुणहीनो भवति, मोहनीयस्य तु पल्योपमसंख्येयभागेन हीनः संजायते ।
ज्ञानावरण-दर्शनावरण-वेदनीया ऽन्तरायाणां पन्योपममात्रे स्थितिबन्धे पूर्णे स्थितिबन्धाऽल्पबहुत्वं चिन्त्यते । तद्यथा-नाम-गोत्रयोः सर्वस्तोकः स्थितिबन्धः, स च पल्योपमसंख्येयभाग-- प्रमाणः । ततो ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां पल्योपमसंख्ययभागमात्रो भवन्नपि संख्यातगुणो भवति । ततो मोहनीयस्य संख्येयगुणः, पल्योपमसंख्येयभागन्यूनविभागोत्तरपल्योपमप्रमाणत्वात् । उक्तं च कषायप्राभूतचूर्णी-"ताधे अप्पाबहुअं-णामागोदार्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org