________________
स्थितिबन्धनिरूपणम् ]
निवृत्तिकरणाधिकारः
[ ४१
तदानीं स्थितिबन्धाऽल्पबहुत्वमित्थं द्रष्टव्यम् - नामगोत्रयोः सर्वाल्पः स्थितिबन्धः, स्वस्थाने तु मिथः सदृशः, पल्योपममात्रत्वात् । ततो ज्ञानावरण-दर्शनावरण- वेदनीया - ऽन्तरायाणां विशेषाधिकः, सार्धपल्योपममात्रत्वात् । ततो मोहनीयस्य विशेषाधिकः, द्विपल्योपममितत्वात् । इतः पूर्वमप्यनेनैव क्रमेण स्थितिबन्धाऽल्पबहुत्वं वक्तव्यम् । यदवादि कषायप्राभृतचूण - "जाघे णामागोदाणं पलिदोव महिदिगो बंधो, ताधे अप्पाबहुअं वत्तइस्सामो, तं जहा - णामागोदाणं ठिदिबंधी थोवो, णाणावरणीय दंसणावरणीय वेदणीय-अंतराइयाणं ठिदिबंधो विसेसाहिओ, मोहणीयस्स द्विदिबंधो विसेसाहिओ । अदिक्कता सव्वे ठिदिबन्धा एदेण अप्पाबहुअ विहिणा गदा ।" इति ।
यदा नाम-गोत्रयोः स्थितिबन्धः पल्योपममात्रो भवति, तदा-निवृत्तिकरणस्य प्रथमसमयात् सहस्रः स्थितिवातैर्वातितं सत् तत्प्रथमसमयतः संख्येयगुणहीनं भवदपि सप्तानामपि कर्मणां स्थितिसत्त्वमद्यापि सागरोपमशतसहखपृथक्त्वप्रमाणं विद्यते । उक्तं च कषायप्राभृतचूर्णी"ताधे ठिदिसंतकम्मं सागरोवमसदसहस्स पुधन्तं ।" इति ।
'दुस्स' इत्यादि, नाम - गोत्रयोः पल्योपममात्रे स्थितिबन्धे पूर्णे सति 'द्विकस्य' नाम - गोत्ररूपस्य स्थितिबन्धः संख्यगुणहीनो भवति, प्राक्तनस्थितिबन्धतो नाम- गोत्रयोः संख्येयगुणहीनः पल्योपमसंख्येयभागमितः स्थितिबन्धो जायते इत्यर्थः, यतः प्रभृति यस्य कर्मणः पल्योपममितः स्थितिबन्धो भवति, ततः परं तस्य कर्मण उत्तरोत्तर स्थितिबन्धः संख्येयगुणहीनो जायते इति व्याप्तेः । शेषाणां पञ्चानां कर्मणां तु स्थितिबन्धः प्राक्तनस्थितिबन्धतः पूर्ववत् पल्योपमसंख्येयभागेन हो भवति । यदभाणि कषायप्राभृतचूर्णो- “ तदो णामागोदाणं पलिदोवमट्ठिदिगो बंधो, पुण्णे जो अण्णो ठिदिबंधो सो संखेज्जगुणहीणो, सेसाणं कम्माणं ठिदिबंधो विसेस होणो |" इति ।
नामगोत्रयोः पल्योपममात्रे स्थितित्रन्धे पूर्ण स्थितिबन्धा -- पबहुत्वमित्थं प्ररूपयितव्यम् - नाम - गोत्रयोः सर्वान्पः स्थितिबन्धः, स च पल्योपम संख्येय भागप्रमाणः । ततो ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायाणां संख्येयगुणः, पल्योपमसंख्येयभागन्यूनसार्थपल्योपममात्रत्वात् । ततो मोहनीयस्य विशेषाधिकः, पल्योपमसंख्येयभागोन द्विपल्योपममितत्वात् । उक्तं च कषायप्राभृतचूर्णो - " ताघे अप्पा बहुअं- णामागोदाणं ठिदिबंधो धोवो, चदुण्हं कम्माणं द्विदिबंधो तुल्लो संखेज्जगुणो, मोहणीयस्य द्विदिबंधो विसेसाहिओ ।" इति ॥ २६ ॥
ततः परं संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु नामगोत्रादीनां स्थितिवन्धं वक्तुकाम आह-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org