________________
४०] खवगसेढी
[ गाथा-२६ प्ररूपणाविशेषे नियमो नास्ति, संख्यातेषु स्थितिबन्धसहखेषु गतेषु भवतीति व्याप्तिनियमो नास्ती. त्यर्थः, यथा “पूण्णे" इत्यादि द्वात्रिंशत्तमगाथायाम् एकस्मिन् स्थितिबन्धे पूर्णेऽल्पबहुत्वमभिधास्यति, तत् प्राक्तनबन्धतः संख्येषु स्थितिबन्धेषु गतेषु स्थितिबन्धे पूर्णे न पक्तव्यम, किन्तु तस्मिन्नेव स्थितिबन्धे पूर्णे-ऽभिधातव्यम् । एवमन्यत्रा-ऽपि, विशेषेण सामान्यस्य बाधद
र्शनात् । अथ प्रतिजिज्ञासुराह-'कहिमु बंध' ति 'कथयामः' निरूपयामः 'बन्धं' मोहनीयादीनां स्थितिबन्धम् ॥ २८ ॥
अथ प्रतिज्ञातमेव प्राह
एग-दिवढ-दु-पल्लाणि वीसगाणं य तीसगाणं य । मोहस्स य परिवाडीअ दुगस्स उ संखगुणहीणो ॥२६॥
एक-द्वधर्ध-द्विपल्यानि विंशतिकयोश्च त्रिंशकानां च ।
मोहस्य च परिपाटया द्विकस्य तु संख्यगुणहीनः ।। २६ ।। इति पदसंस्कारः । 'एग०' इत्यादि, एकेन्द्रियवन्धतुस्थितिबन्धभवनात्संख्यातेषु सहसेषु स्थितिबन्धेष व्यतिक्रान्तेषु 'विंशतिकयोश्च' विंशतिसागरोपमकोटिकोटीस्थितिकयोर्नाम-गोत्रयोरित्यर्थः, चकारः समुच्चये,एवमग्रेऽपि 'त्रिंशत्कानां' त्रिंशत्सागरोपमकोटिकोटिस्थितिकानां च ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायाणां चेत्यर्थः मोहस्य' मोहनीयकर्मणश्च स्थितिबन्धः 'परिपाट्या' क्रमेण 'एकद्वयर्धद्वि-पल्यानि एक-सार्ध-द्विपल्योपमानि भवति । इदमुक्तं भवति-नाम-गोत्रयोः स्थितिबन्ध एकपल्योपममात्रो ज्ञानावरणादीनां सार्धपल्योपममानो मोहनीयस्य तु द्विपल्योपमप्रमितो भवति । उक्तं च कषायप्राभृतचूर्णी-"एइंदियट्टिदिधंधसमगादो डिदिबंधादो संखेज्जेसु हिदिबंधसहस्सेसु गदेसु णामागोदाणं पलिदोवयढिदिगो बंधो जादो, ताधे णाणावरणीय-दसणावरणीय वेदणीय-अंतराइयाणं दिवड्डएलिदोवमहिदिगो बंधो मोहणीयस्स बे पलिदोवमट्टिदिगो बंधो।” युक्तियुक्तमिदं वचनम् । तथाहि-यदि विंशतिसागरोपमकोटिकोटिस्थितिकयो म-गोत्रयोः स्थितिबन्ध एकपल्योपममात्रो भवति, तर्हि त्रिंशत्सागरोपमकोटिकोटिस्थितिकानां ज्ञानावरणादीनां कियान् स्थितिबन्धो भवेदिति त्रैराशिकेन [ २० सा० को० को० । ३० सा० को० को० । १ पल्यो० । लब्धम् १३ पल्या० । ] ज्ञानावरणादीनां स्थितिवन्धः सार्धपल्योपममात्रः साध्यः । तथा विंशतिसागरोपमकोटिकोटिस्थितिकयो मगोत्रयोः स्थितिबन्धो यदि पल्योपमप्रमाणो भवति, तर्हि चत्वारिंशत्सागरोपमकोटिकोटिस्थितिकस्य मोहनीयस्य स्थितिबन्धः कियान् भवेदिति राशिकेन [२० सा० को० को०। ४० सा० को० । १ पल्यो । लब्धे २ पल्यो० ] मोहनीयस्य स्थितिबन्धो द्विपल्योपमप्रमितोऽवाप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org