________________
स्थितिबन्धनिरूपणम् ] अनिवृत्तिकरणाधिकारः
[३६ मध्ये तदिच्छाहतमाद्यहृत स्यादिच्छाफलं व्यस्तविधिर्विलोमे ॥ १ ॥”
प्रमाणमत्र सप्ततिसागरोपमकोटिकोटयः, इच्छा च चत्वारिंशत्सागरोपमकोटिकोटयः, प्रमाणफलम् पुनः सागरोपमः । ततः प्रमाणफलमिच्छया गुण्यते, ततो गुणितं प्रमाणेन विमज्यते, तदा "शून्यं शन्येन पातयेत्" इति वचनात् चत्वारः सागरोपमस्य सप्तभागा लभ्यन्ते। तथा सागरोपमकोटीकोटीस्थितिकस्य मिथ्यात्वमोहनीयस्यैकसागरोपममात्रः स्थितिबन्ध एकेन्द्रिये भवति, तर्हि त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावरणादीनां कियान् स्थितिबन्धो भवेदिति त्रैराशिकेन [७० सा० को० को० । ४० सा० को० को० । १ सा० । लब्धम् 3 सा०] ज्ञानावरणादीनां सागरोपमत्रिसप्तभागमात्रः स्थितिबन्धः प्राप्तव्यः। तथा सप्ततिसागरोपमकोटिकोटिस्थितिकस्यैकसागरोपमः स्थितिवन्ध एकेन्द्रिये भवति, तर्हि विंशतिसागरोपमकोटीकोटीस्थितिकयो म-गोत्रयोः कियान् भवेदिति त्रैराशिकेन [ ७० सा० को० को० । ४० सा० को० को० । १ सा० । लब्धम् 3 सा० ] नाम-गोत्रयोः स्थितिबन्धो सागरोपमद्विसप्तभागप्रमितः साध्यः । एवं द्वीन्द्रियादिष्वपि त्रैराशिकेन स्थितिबन्धः साधनीयः, नवरं तत्र यथाक्रमं पञ्चविंशतिगुणः पञ्चाशद्गुणः शतगणः सहस्रगुणश्च स्थितिवन्धो वक्तव्यः । उक्तं च कषायप्रामृतचूर्णी-"तदो संखेज्जेसु ठिदिबंधसहस्सेसु गदेसु चउरिंदियहिदिबंधसमगो जादो। एवं तीइंदियसमगो, बीइंदियसमगो एगिंदियसमगो जादो।" इति ॥ २७ ॥
अथ लाघवार्थ्यधिकारगाथा भणतिठिबंधबहुसहस्सेसु गयेसु होइ जं तु एककं । तं णिहामो णत्थि विसेसे णियमो कहिमु बंधं ॥ २८ ॥
स्थितिबन्धबहुसहस्र सु गतेषु भवति यत्त्वेकैकम् ।
तद्भणियामो नास्ति विशेषे नियमो कथयामो बन्धम् ।। २८ ।। इति पदसंस्कारः। 'ठिइ.' इत्यादि, स्थितिबन्धबहुसहस्रेषु गतेषु यत्त्वेकैकं भवति, तत् भणिष्यामः । इदमुक्तं भवतिबहुशब्दः संख्यातवाची। ततश्चायमर्थः-इतः परं यानि वस्तूनि वक्ष्यामः, तेपामेकं स्थितिबन्धसंख्यातसहस्रेषु गतेषु वक्तव्यम् , ततः पुनः स्थितिबन्धसंख्यातसहसेषु गतेष्वन्यदेकं निगदितव्यम् । ततो भूयः स्थितिवन्धसंख्यातसहस्रेषु व्यतिक्रान्तेवितरदेकमभिधातव्यम् । एवं संख्यातेषु स्थितिबन्धसहस्रेषु गतेषु गतेष्वेकै भाषितव्यम् । यथा-ऽनन्तरगाथायां नामगोत्रादीनां स्थितिबन्धं वक्ष्यति, स एकेन्द्रियवन्धतुल्यस्थितिवन्यभवनात् संख्यातेषु स्थितिबन्धसहतेष गतेषु ज्ञातव्यः। एवं ततोऽप्यग्रे यद्यद्वक्ष्यति तत्तत्संख्यातेप स्थितिवन्धसहस्रेषु गतेषु वक्तव्यम् । ननु किमियं व्याप्तिः सर्वत्र ज्ञातव्या, उता-ऽस्ति कश्चिद् विशेषः १ इत्यत आह–णत्थि' इत्यादि, 'विशेष'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org