________________
३६ ]
गढी
[ गाथा - २५-२६
भवन्ति, यथासंभवं चोदय संक्रमोद्वर्तना- ऽपवर्तन करणसाध्या भवन्तीत्यर्थः । अनिवृत्तिकरणे प्रथमस्तु तुर्वाक्यभेदे “स्यात्तु भेदेऽवधारणे” इति वचनात् स्थितिबन्धः 'अन्तर्लक्षम् ' लक्षस्य - शत सहत्रस्य अन्तर-मध्ये 'पारेमध्येऽग्रे ऽन्तः षष्ठ्या वा" ( सिद्धहेम० ३-१-३० ) इत्यनेन सूत्रेणाऽव्ययीभावसमासः, सागरोपमसहस्र पृथक्त्वमात्रः स्थितिबन्धो जायत इत्यर्थः । यदवादि कषायमाभूतचूर्णी- “डिदिबंधो सागरोपमसहस्सपुधत्तमंतोसदसहस्सस्स ।”
इति ॥ २४ ॥
- निवृत्तिकरण प्रथमसमये स्थितिसत्त्वं प्रतिपिपादयिषुराह
जं दिसतं अंतोकोडाकोडी पुढमखणे | होजा तं अंतोकोडी अनियद्विपमखामि ॥ २५ ॥
यत्स्थिति सत्त्वमन्तःकोटिकोटय पूर्व प्रथमक्षणे ।
भवति तदन्तः कोटय निवृत्तिप्रथमक्षणे || २५ || इति पदसस्कारः ।
'जं' इत्यादि, यत् स्थितिसत्त्वं 'अपूर्वप्रथमक्षणे' अपूर्वकरणप्रथमसमये 'अन्तःकोटिकोटि ' सागरोपमकोटिशतसहस्र पृथक्त्वमात्रमासीत् तत् 'अनिवृत्ति प्रथमक्षणे' अनिवृत्तिकरणप्रथमसमये 'अन्तःकोटि 'कोटेरन्तः सागरोपमशतसहस्रपृथक्त्वं भवतीत्यर्थः । न्यगादि च कषायप्राभृतचूर्णो- “ट्ठिदिसंतकम्मं सागरोवमसदसहस्सपुधत्तमंतोकोडीए ।” अपूर्वकरणप्रथमसमये सप्तकर्मणो यत् स्थितिसत्कर्म सागरोपम कोटिशतसहस्रपृथक्त्वप्रमितमासीद्, तत् प्रत्येकस्थितिघातेन पल्योपमसंख्येयभागोनं भवत् संख्यातैः स्थितिघातसहस्रैर्घातितं सागरोपमशतसहस्र पृथक्त्वप्रमितं भवतीति फलितार्थः ||२५||
स्थितिसत्त्वस्य प्रमाणमभिधाय सम्प्रति त्रिकालगोचरनानाजीवा ऽपेक्षयाऽनिवृत्ति करणे समानं स्थितिसत्त्वं स्थितिखण्डं च प्रतिपिपादयिषुराह—
Jain Education International
पढमे ठिइखंडे पृणे तुल्लं हवइ संतकम्मं तु । सव्वेसिं जीवाणं ठिइखंडं य वि हवइ तुल्तं ॥ २६ ॥
प्रथमे स्थितिखण्डे पूर्णे तुल्यं भवति सत्कर्म तु /
सर्वेषां जीवानां स्थितिखण्डं चा ऽपि भवति तुल्यम् ||२६|| इति पदसंस्कारः ।
'पढ' इत्यादि, अनिवृत्तिकरणे 'प्रथमे' आदिमे स्थितिखण्डे 'पूर्णे' अपगते 'सर्वेषां जीवानां युगपत्प्रविष्टानां नानाजीवानां 'सत्कर्म तु' स्थितिसत्त्वं तु 'तुल्यं' समानं भवति । उक्तं
For Private & Personal Use Only
www.jainelibrary.org