________________
स्थितिबन्धनिरूपणम् ] अनिवृत्तिकरणाधिकारः
[ ३७ च कषायप्राभृतचूर्णी-“पढमे ठिदिखंडए हदे सव्वस्स तुल्लकाले अणियटिपविहस्स ठिइसंतकम्मं तुल्लं।"
अनिवृत्तिकरणे प्रथमस्थितिखण्डे पूर्णे सर्वेषां जीवानां न केवलं स्थितिसत्कर्म मिथस्तुल्यं भवति, किन्तु स्थितिखण्डमपि । तदेव प्राह-'ठिइखण्डं' इत्यादि, सर्वेषां जीवानां 'स्थितिखण्ड' द्वितीयादिस्थितिखण्डं चा-ऽपि तुल्यं समानं भवति, स्थितिसत्त्वस्य सदृशत्वात् स्थितिखण्डस्य प्रायेण स्थितिसच्चानुसारित्वाच्च । एतदुक्तं भवति-अनिवृत्तिकरणे प्रथमे स्थितिखण्डेऽपगते सति तुल्यकाले प्रविष्टेष नानाजीवेष्वेकतमस्य जीवस्य द्वितीयस्थितिखण्डेनाऽपरस्य द्वितीयस्थितिखण्डं तुल्यं भवति । एवमेकस्य तृतीयस्थितिखण्डेनेतरस्य तृतीयं स्थितिखण्डं सदृक्षं भवति । एवमग्रेऽपि । उक्तं च कषायप्राभूतचूर्णी-"ठिदिखंउयं पि सव्वस्स अणियहिपविट्ठस्स विदियहिदिखण्डयादो विदियहिदिखण्उयं तुल्लं, तदो पहुडि तदियादो तदिगं तुल्लं।" इति ॥ २६ ॥
नन्वनिवृत्तिकरणे उत्तरोत्तरस्थितिबन्धे पल्योपमसंख्येयमागेन स्थितिन्यूना न्यूनतरा भवति । तत्र संख्यातैः स्थितिबन्धैरनिवृत्तिकरणस्य संख्येयबहुभागेषु गतेषु स्थितिबन्धः कियान् भवति ? इत्यत आह
ठिइबंधसंखगमणे असण्णितुल्लो पहवइ ठिइबंधो। चउतिदुएगिदियतुल्लो बंधो अंतरे य बहुबंधा॥२७॥(गीतिः) स्थितिबन्धसंख्यगमने-ऽसंज्ञितुल्यः प्रभवति स्थितिबन्धः।।
चतुस्त्रिद्वय केन्द्रियतुल्यो बन्धो-ऽन्तरे च बहुबन्धाः ।। २७ ॥ इति पदसंस्कारः। 'ठिइबंधः' इत्यादि, अनिवृत्ति करणे ‘स्थितिबन्धसंख्यगमने' सति स्थितिबन्धसंख्यातेषु गतेषु सत्स्वित्यर्थः, अनिवृत्तिकरणस्य संख्येयतमे भागेऽवशिष्यमाणे सप्तानां कर्मणां स्थितिबन्धः 'असंज्ञितुल्यः' असंज्ञिस्थितिबन्धेन सदृशः 'प्रभवति' जायते, मोहनीयस्य सागरोपमसहस्रचतुःसप्तभागमात्रः (१०१०४४ सा०),ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां सागरोपमसहखत्रिसप्तभागप्रमाणः (१०००४३ सा०)स्वस्थाने तु मिथः सदृशः, नाम-गोत्रयोः सागरोपमसहखद्विसप्तभागमितः (१०००४२ सा० ) स्वस्थाने परस्परं तुल्यः स्थितिबन्धो भवतीत्यर्थः । उक्तं च कषायप्रातभचूर्णी-“एवं संखेज्जेसु ठिदिबंधसहस्सेसु गदेसु तदो अण्णो ठिदिबंधो असण्णिहिदिबंधसमगो जादो।” ततः क्रमेण चतुस्त्रिद्वय केन्द्रियतुल्यो 'बन्धः' स्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org