SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ देशोपशमनादिकरणविच्छेदः ] निवृत्तिकरणाधिकारः [ ३५ , यितु' विधातयितुम् ' आरभते' उपक्रमते । तत् घात्यमानं स्थितिखण्डं किमपूर्वकरण वज्जघन्यत उत्कृष्टं संख्येयगुणं भवति, उत प्रकारान्तरेणेति शङ्काव्युदासाय भगति - 'तं' इत्यादि, 'तत्' घात्यमानं स्थितिखण्डं ' ह्रस्वात् ' जघन्य स्थितिखण्डात् ' संख्येयभागाधिक' संख्येयतमभागेनाऽधिकमुत्कृष्ट ं भवति । उक्तं च कषायप्राभृतचूण-- “पढमट्ठिदिखंडयं विसमं जहण्णयादो उक्कस्सयं संखेज्जभागुत्तरं । " कथमेतदवसीयते ? इति चेद् शृणुत- अनिवृत्तिकरणप्रथमसमये जघन्य स्थिति सत्कर्मत उत्कृष्टस्थितिकर्मणः संख्ये भागेना -ऽऽधिक्यात स्थितिखण्डस्य प्रायः स्थितिसत्कर्मानुसारित्वाच्च जघन्यत उत्कृष्टं स्थितिखण्डं संख्येयभागेनाऽधिकं भवति, न त्वपूर्वकरणवत् संख्येयगुणम् । , न चानिवृत्तिकरणप्रथमसमये जघन्यत उत्कृष्ट स्थितिसत्कर्म संख्येयगुणं कथं न भवतीति वाच्यम्, तथा स्वाभाव्यात् । एतदुक्तं भवति — यद्यप्यपूर्वकरणे जघन्यत उत्कृष्टं स्थितिसचं संख्येयगुणं दृश्यते, तथापि तत्र तेन क्रमेण स्थितिघातं करोति, येना-ऽनिवृत्तिकरणप्रथमसमये घातिताऽवशेष स्थितिसत्त्वं जघन्यत उत्कृष्टं केवलं संख्येयभागेना -ऽधिकं भवति । , अनिवृत्तिकरणप्रथमसमये स्थितिखण्डं विनाशयितुमारभते इत्येतदुपलक्षणम् तेन तदानीमेवाऽपूर्वकरण चरम स्थितिबन्धतः पल्योपमसंख्येयभागेन हीनमभिनवं स्थितिबन्धमभिनवं च रसघातमारभते इत्युपलक्ष्यते । उक्तं च कषायप्राभृतचूर्णो - "पढमसमयअणियहिस्स अण्णं द्विदिखंडयं पलिदोवमस्स संखेज्जदिभागो, अण्णमणुभागखंडयं सेसस्स भागा, अण्णो द्विदिबंधो पलिदोवमस्स संखेज्जदिभागेण होणो । ” इति ॥ २३ ॥ सम्प्रत्यनिवृत्तिकरणप्रथमसमये देशोपशमनादिकरणत्रयस्य व्यवच्छेदमनिवृत्तिकरणे प्रथमस्थितिबन्धं च व्याजिहीर्षु राह पढमखणे देसोव समानिकायणनिहत्तिकरणाई । वोच्छिन्नाइं अंतोलक्खं पढमो उठिइबंधो ॥ २४ ॥ Jain Education International प्रथमक्षणे देशोपशमना-निका चना-निधत्तिकरणानि । व्यवच्छिन्नान्यन्तर्लक्षं प्रथमस्तु स्थितिबन्धः || २४ ॥ इति पदसंस्कारः । 'पढम ० ' इत्यादि, 'प्रथमक्षणे' अनिवृत्तिकरणप्रथमसमये देशोपशमनानिकाचनानिधत्तिकरणानि व्यवच्छिन्नानि भवन्ति, सत्तागतसर्वकर्मणां प्रदेशेषु देशोपशमना-निधत्ति-निकाचनाकरणानि न प्रवर्तन्ते, तथा सत्तागतसर्वकर्मणां सर्वप्रदेशा देशोपशमना-निकाचना-निधत्तिकरणैर्विरहिता For Private & Personal Use Only .www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy