________________
३२]
खवगसेढी
[ गाथा-२०-२१ र्णत्वात् । एवं सर्वनिषेकानाश्रित्याऽपि वक्तव्यम् । तथाहि-आगमा-ऽविरोधेन सत्तागतसर्वनिषेकगतदलं पल्योपमाऽसंख्योयभागेन भक्त्वैकभागमुत्किरति । उत्कीर्णदलं पुनः पल्योपमा-ऽसंख्योयभागेन विभज्य भागमुद्वर्तयति बहुभागांचा-उपवर्तयति । इत्थं सर्वनिषेकानाश्रित्या-ऽप्युद्वर्तनातो दलिकाऽपवर्तनाऽसंख्येयगुणा भवति, ततोऽनुत्कीर्यमाणदलिकसत्ता-ऽसंख्येयगुणा जायते । उक्त च कषायप्राभृते
"वड्ढीदु होइ हाणी अहिगा हाणीदु तह अवठ्ठाणं।
गुणसेढी असंखेज्जा च पदेसग्गेण बोद्धव्वा ॥ १॥" एवं तच्चूर्णावपि—“विहासा, जं पदेसग्गमुक्कड्डिजदि सा वढि त्ति सण्णा । जमोकड्डिज दि सा हाणि त्ति सण्णा । ज ण ओकड्डिज दि,ण उक्कड्डिजदि पदेसग्गं तमवहाणं त्ति सण्णा । एदीए सण्णाए एक्कं ठिदि पडुच्च सव्वाओ हिदीओ पडुच्च अप्पाबहुअं । तं जहा-वडूढी थोवा, हाणी असंखेजगुणा, अवट्ठाणमसंखेजगुणं ।"
इयं प्ररूपणोपशमश्रेणिं प्रतिपद्यमानस्या-ऽपि ज्ञातव्या, विशेषाभावात् ॥१९॥ सम्प्रत्यपूर्वकरणे बन्धोदयोर्व्यवच्छेदं व्याजिहीपुराह
पढमंसेऽपुव्वस्स उ बे णिद्दा सुरगइप्पभिइतीसा। छटुंसे हासरइभयदुगुच्छाऽन्ते य बंधत्तो ॥२०॥ वोच्छिज्जति छ हासाई उदयत्तो य ठिइबंधो । पढमसमयो चरिमसमम्मि संखेजगुणहीणो ॥२१॥(उपगीतिः) प्रथमांशे-ऽपूर्वस्य तु द्वे निद्र सुरगतिप्रभृतित्रिंशत् । षष्ठांशे हास्य-रति-भय-जुगुप्सा अन्ते च बन्धतः ॥ २० ।। व्यवच्छिद्यन्ते षट् हास्यादय उदयतः स्थितिबन्धः ।
प्रथमसमयतश्चरमसमये संख्येयगुणहीनः ।। २१ ।। इति पदसंस्कारः । 'पढमसे' इत्यादि, अपूर्वकरणाद्धायाः सप्तभागाः कर्तव्याः । एकैकमागे संख्येयाः स्थितिबन्धा व्रजन्ति । तत्र 'अपूर्वकरणस्य अपूर्वकरणाद्धायाः 'प्रथमांशे' प्रथमसप्तभागपर्यवसाने तु 'द्वे निद्रे' स्त्यानद्धित्रिकस्य प्रागेव व्यवच्छेदात् निद्रामचलारूपे बन्धतो व्यवच्छिद्यते इति क्रियया सहा-ऽन्वयः । इह बध्यते, उत्तरत्र न बध्यते, तद्वन्धाध्यवसायस्थानाभावात् । इतः परं निद्राद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org