SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वम् ] अपूर्वकरणाधिकारः [३१ ननु संसारावस्थायां संक्लिष्टपरिणामा मिथ्यादृष्टिप्रभृत्यप्रमत्तसंयतपर्यवसानाः सर्वे जीवाः सर्वाः स्थिती( कां स्थितिं वा-ऽऽश्रित्योत्कीर्णदलिकतो बहुदलमुद्वर्तयन्ति,स्तोकं त्वपवर्तयन्ति । मध्यमपरिणामास्तु यावद् दलमुद्वर्तयन्ति, तावद् दलमपवर्तयन्ति । विशुद्धपरिणामाः पुनः स्तोकमुद्वर्तयन्ति बहु दलमपवर्तयन्ति । अनुत्कीर्ण सत्तागतदलं तु त्रिविधानामपि जन्तूनामुद्वर्तनातो-ऽपवर्तनातो वाऽसंख्येयगुणं विद्यते । यदुक्तं कषायप्राभूतचूर्णी-"अक्खवगाणुवसामगस्स पुण सव्वाओ हिदीओ एगहिदि वा पडुच्च वढीदो हाणी तुल्ला वा विसेसाहिया विसेसहीणा वा । अवठाणमसंखेजगुणं ।" करणाभिमुखानां तूद्वर्तनातोऽपवतेनायामसंख्येयगुणं दलिकं भवति, ततोऽनुत्कीर्यमाणं सत्तागतदलमसंख्येयगुणं भवतीति, तर्हि क्षपकश्रेणि प्रतिपद्यमानस्य जन्तोरुद्वर्तनादीनामल्पबहुत्वं कथं भवतीति शंकापरिहारार्थमाह उवट्टणाअ खु असंखगुणा अोवट्टणा तो सत्ता। जं उक्किएणस्स असंखंसो उव्वट्टणाअ होएइ ॥१६॥ (गीतिः) उद्वर्तनायाः खल्पसंख्यगुणाऽपवर्तना ततः सत्त्वम् । यद् उत्कीर्णस्य असंख्यांश उद्वर्तनायां भवति ।।१६।। इति पदसंस्कारः। 'उव्वदृणाअ' इत्यादि, 'उद्वर्तनायाः' उद्वर्तनातः 'खु' त्ति खलु-निश्चयेन "हु खु निश्चयवितर्कसंभावने विस्मये" (सिद्धहेम० ८-२-१९८) इति वचनात् असंख्यगुणा अपवर्तना, 'ततः' अपवर्तनातः सत्ताऽसंख्येयगुणा । अत्र सत्ताशब्देन उद्वर्तनाऽपवर्तनागतदलं वर्जयित्वा शेषप्रदेशसत्ता ग्राह्या । अयं भावः-एकनिषेकं सर्वनिषेकांश्चा-ऽऽश्रित्योद्वय॑मानप्रदेशाग्रतोऽपवर्त्यमानप्रदेशाग्रमसंख्येयगुणं भवति, ततः सत्तागतप्रदेशाग्रं यद् नोद्वय॑ते, नवाऽपवाते, तदसंख्येयगुणं भवति, सतागतदलसत्काऽसंख्येयभागमात्रस्यौव दलस्योत्कीर्णत्वात् । ननूद्वर्तनातोऽपवर्तनाऽसंख्योयगुणा कुतो भवतीत्याह-'ज' इत्यादि, 'यद्' यतः 'उत्कीर्णस्य' उत्कीर्णप्रदेशाग्रस्य 'असंख्यांशः' एकोऽसंख्योयभाग उद्वर्तनायां भवति, शेषा बहुभागास्त्वपवर्तनायां भवन्तीत्यर्थः । तेन क्षपकस्योद्वर्तनागतदलतोऽपवर्तनागतदलमसंख्योगुणं भवति । तथाहि-यस्मात्कस्माच्चिदपि निषेकात् सत्तागतदलं पल्योपमाऽसंख्यभागरूपभागहारेण भक्त्वैकभागमुत्किरति, शेषान् बहुभागान् सत्तायां विमुञ्चति । पुनरुत्कीर्णदलं पल्या-ऽसंख्येयमागप्रमाणभागहारेण विभज्यौकभाग उद्वय॑ते बहुमागाश्चाऽपवर्त्यन्ते, तेनेदमल्पबहुत्वं सङ्गच्छते-दलिकस्योद्वर्तनातोऽपवर्तनाऽसंख्योयगुणा, उद्वर्तनातोऽपवर्तनायामुत्कीर्णदलस्याऽसंख्येयबहुभागमात्रत्वात् । अपवर्तनातो-अनुत्कीर्यमाणदलिकसत्ता-ऽसंख्ोयगुणा, सत्तागतदलिकसत्का-ऽसंख्ययभागस्योत्की Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy