________________
गुणश्रेणिः ] अपूर्वकरणाधिकारः
[ २६ पूरणे ठिइबंधे अण्णो होजइ पल्लसंखभागोणो ॥१७॥ (गीतिः) बन्धोऽन्तःकोटिकोटि सत्तायाः संख्यगुणहीनः ।
पूर्णे स्थितिबन्धो-ऽन्यो भवति पल्यसंख्यभागोनः ॥१७।। इति पदसंस्कारः । 'बंधो' इत्यादि, अपूर्वकरणप्रथमसमये 'बन्ध' : स्थितिवन्धः 'अन्तःकोटिकोटि' अन्तःसागरोपमकोटिकोटिप्रमाणः सागरोपमकोटिशतसहस्रपृथक्त्वमात्र इत्यर्थः । ननु तदानीं स्थितिसत्त्वमप्यन्तःसागरोपमकोटिकोटिमितं भवति, द्वाविंशतितमगाथायां तत्प्रतिपादनदर्शनात्, तर्हि किं स्थितिबन्धस्थितिसत्चयोस्तुल्यत्वम्, उत वैषम्यमिति शंकापरिहारार्थमाह-'सत्ताउ' इत्यादि, 'सत्तायाः' स्थितिसत्कर्मतः संख्यगुणहीनः स्थितिबन्धो भवति, न तुल्यः । उक्तं च कषायप्राभृतची-"तदो ठिदिसंतकम्म ठिदिबंधो च सागरोवमकोडिसदसहस्सपुधत्तमंतोकोडाकोडीए बंधादो पुण संतकम्मं संखेजगुणं।" कषायप्राभृतचूर्णो स्थितिवन्धतः स्थितिसत्त्वस्य संख्येयगुणत्वप्रतिपादनात् स्थितिसत्त्वतः स्थितिबन्धः संख्येयगुणहीनः सिध्यति । अपूर्वकरणप्रथमसमये प्रारब्धः स्थितिबन्धोऽन्तमुहूतं यावत्प्रवर्तते । प्रथमस्थितिवन्धे पूर्णे यो विशेषस्तं दर्शयति-'पूष्णे' इत्यादि, 'पूर्णे स्थितिवन्धे' प्रथमस्थितिबन्धे निष्ठिते 'अन्य' द्वितीयः ‘पल्यसंख्यभागोनः' पल्यस्य-पल्योपमस्य संख्यभागः-संख्यातभागः, तेन ऊनः-हीनः, “ऊनार्थपूर्वाद्यः" ( सिद्धहेम० ३-१-६७ ) इति तृतीयातत्पुरुषसमासः, स्थितिबन्धो 'भवति' जायते । उपलक्षणमेतद्, तेन द्वितीयस्थितिबन्धे पूर्णे तृतीयस्थितिवन्धः पूर्वतः पल्योपमसंख्येयभागेन हीनः प्रारभ्यते । एवंक्रमेण पूर्वपूर्वतः पल्योपमसंख्येयभागेन हीनो हीनतरः स्थितिबन्धो जायते । स्थितिबन्धाद्धा स्थितिघाताद्धया तुल्या भवति, तेन स्थितिबन्धः स्थितिघातश्च युगपदारभ्येते युगपनिष्ठां च यातः । अपूर्वकरणे स्थितिघातानां संख्येयत्वोपलम्भात् स्थितिबन्धा अपि संख्येया व्रजन्ति । ( पश्यन्तु यन्त्रकम्-२ ) ॥ १७ ।।
अथ गुणश्रेणिं विवर्णयिपुराहगुणसेढीए अायामो हवए करणदुगऽहिरो गलियो। खिवइ दलं कमसो घेत्तण-ऽणुसमयं असंखगुणणाए ॥१८॥ (गीतिः)
गुणश्रेणेरायामो भवति करणद्विकाऽधिको गलितः ।
क्षिपति दलं क्रमशो गृहीत्वा-ऽनुसमयमसंख्यगुणनया ॥१८॥ इति पदसंस्कारः । अपूर्वकरणप्रथमसमयादेवायुर्वर्जसप्तकर्मणां गुणश्रेणिः प्रवर्तते । तत्र गुणश्रेणिनिक्षेपः कियान् भवतीत्यत आह-'गुणसेढीए' इत्यादि, गुणश्रेणेः 'आयामः' उदयसमयप्रभृतिगुणश्रेणिशिरःपर्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org