________________
२८ ] खवगसेढी
[ गाथा-१६ चूणौँ-"जे अपसत्थकम्मंसाण बज्झति तेसिं कम्माणं गुणसंकमोजादो।" अयं भावः गुणसंक्रमेणा-ऽपर्वकरणप्रथमसमये बध्यमानासु परप्रकतिष्धबध्यमाना-ऽशुभपकृतीनां यावत् प्रदेशाग्रं संक्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणं संक्रमयति, ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । एवमग्रेतनेष्वपि समयेषु वक्तव्यम् ।। १५॥
गुणसंक्रममभिधाय रसघातं व्याख्यातुकाम आहखंडइ अणंतभागा रसस्स णत्थि च सुहाण रसवात्रो। एक्केक्कम्मि ठिइविधाये रसघाया सहस्साइं॥ १६ ॥
खण्डयत्यनन्तभागान् रसस्य नास्ति च शुभानां रसघातः । एकैकस्मिन् स्थितिविघाते रसघाताः सहस्राणि ।। १६ ॥ इति पदसंस्कारः ।
'खंडई' इत्यादि, तत्र 'रसस्य' शुभप्रकृतीनां प्रतिषेधस्य वक्ष्यमाणत्वात् सामर्थ्यात् सत्तागता-ऽशुभप्रकृतीनामनुभागस्य 'अनन्तभागान्' अनन्तबहुभागान् ‘खण्डयति' रसघाताद्धया विघातयति । उक्तं च कषायप्राभृतचूर्णी-"अणुभागखंडयं च आगाइदं, तं पुण अप्पसत्थाणं कम्माणमणंता भागा ।” इदमत्र हृदयम्-रसघाताद्धाऽन्तमुहूर्तमात्रा भवति । एकस्यां रसघाताद्धायां सत्तागता-ऽनुभागस्या-ऽनन्ता बहुभागा विनाश्यन्ते,एकश्चाऽनन्ततमभागः सत्कर्मणि विमुच्यते । एवं प्रतिरसघाताद्धमनन्तबहुभागान् घातयित्वैकभागं परित्यज्य प्रत्यन्तमुहूर्तमनुभागसत्त्वमनन्तगुणहीनं करोति । अशुभानां प्रकृतीनामेव रसघातो भवति, अतः शुभानां रसघातनिषेधाय भणति—'णत्थि' इत्यादि, 'नास्ति' न भवति च 'शुभानां' सातवेदनीयादीनां रसघातः । 'एकैकस्मिन्'-एकस्मिन् एकस्मिन् “वीप्सायाम्” (सिद्धहेम० ७-४-८०) इति द्विरुक्त एकशब्दः। “प्लुप चादावेकस्य स्यादेः” (सिद्धहेम०७-४-८१) इति द्विक्तस्यैकशब्दस्य स्यादेलुप् भवति, प्रत्येकस्मिन्नित्यर्थः, स्थितिघाते रसघाताः सहस्राणि भवन्तीति शेषः । अयं भावः-स्थितिघातेन सहैव रसघातः प्रारभ्यते, तनिष्ठा तु स्थितिघाततः प्रागेव भवति, एकस्मिन् स्थितिघाते रसघातसहस्राणां दर्शनात् । यदा पुनरभिनत्रः स्थितिघातः प्रारभ्यते, तदा रसघातोऽपि प्रारभ्यते ।
अपूर्वकरणाद्धायां स्थितिघातानां सहस्रत्वप्रतिपादनाद्रसपाता अपि सहस्राणि गच्छन्ति ॥१६॥ अथाभिनवस्थितिबन्धं व्याचिख्यासुराह
बंधो अंतोकोडाकोडी सत्ताउ संखगुणहीणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org