SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ गुणसंक्रमः ] अपूर्वकरणाधिकारः समगं पविट्ठा,एक्कस्स पुण द्विदिसंतकम्मं संखेजगुणं एक्कस्य हिदिसंतकम्मं संखेजगुणहीणं, जस्स संखेजगुणहीणं डिदिसंतकम्म तस्स हिदिखंउयादो पढमादो संखेजगुणहिदिसंतकम्मियस्स ठिदिखंडयं पढमं संखेजगुणं, विदियादो विदियं संखेनगुणं, एवं तदियादो तदिगं, एदेण कमेण सव्वम्हि अपुव्वकरणे जाव चरिमादो ठिदिखंडयादो त्ति तदिमादो तदिम संखेजगुणं ।” अपूर्वकरणप्रथमसमयात्प्रभृति प्रतिसमयं पल्योषमसंख्येयभागप्रमाणस्थितिखण्डतो दलिकमुत्किरति, उत्कीर्य चा-ऽधस्तात् प्रक्षिपति । एवं स्थितिघाताद्धाया द्विचरमसमयं यावत् पल्योपमसंख्ययभागप्रमाणां स्थिति दलिकापेक्षया तन्वीं करोति, चरमसमये तु तद्गतशेषसर्वदलं गृहीत्वा-ऽ धस्तात् प्रक्षिपति, तेन तदानीं सत्तायां पल्योपमसंख्येयभागेन स्थितियूंना भवति । स्थितिघाताद्धा चा-ऽन्तमुहूर्तप्रमाणा भवति । प्रथमस्थितिघाते पूर्णे पुनः पल्योपमसंख्येयभागमानं द्वितीयं स्थितिखण्डमुत्करितुमारभते, अन्तमुहूर्तप्रमाणस्थितिघाताद्धाया द्विचरमसमयं यावत् स्थितिखण्डगतां स्थितिं प्रदेशापेक्षया तन्वीं करोति, चरमसमये तु तद्गतं शेपं सर्व प्रदेशाग्रमुत्कीर्या-ऽधस्तात प्रक्षिपति, तेन तदानीं सत्कर्मणि पुनः पल्योपमसंख्येयभागेन स्थितिींना भवति । इत्थं द्वितीयस्थितिघातः पूर्णो भवति । एवंक्रमेण संख्यातसहस्रषु स्थितिघातेषु गतेष्वपूर्वकरणं परिसमाप्ति याति । (पश्यन्तु यन्त्रकम्-१) स्थितिघातस्य विशेषस्वरूपं तु कर्मप्रकृतिग्रन्थे उपशमनकरणगतसम्यकत्वोत्पादटीकायां निरूपितम् , विशेषार्थिना ततो-ऽवसेयम् ॥१४॥ सम्प्रति गुणसंक्रमं निगदितुकाम आहअसुहपयडीण-ऽसंखगुणं दलिअंखिवइ अन्नासु। बंधतासु सपयडीसु अणुखणं स गुणसंकमो णेयो ॥१५॥ (उद्गीतिः) अशुभप्रकृतीनामसंख्यगुणं दलिकं क्षिपत्यन्यासु। बध्यमानासु स्वप्रकृतिष्वनुक्षणं स गुणसंक्रमो ज्ञ यः ।। १५ ।। इति पदसंस्कारः। 'असुह०' इत्यादि, अपूर्वकरणप्रथमसमयात्प्रभृति 'अशुभप्रकृतीनाम्' "व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायाद् अबध्यमानानामशुभप्रकृतीनामप्रत्याख्यानावरणादिरूपाणां 'दलिक' प्रदेशाग्रम् 'अनुक्षणं' प्रतिसमयम् 'असंख्यगुणम्' असंख्यातगुणं येन संक्रमेण यत्तदोः सापेक्षत्वादुत्तरत्र तत्पदोपादानदर्शनाद् यत्पदोपादानम्, बध्यमानासु 'अन्यासु' परासु 'स्वप्रकृतिषु' स्वजातीयप्रकृतिषु 'क्षिपति' संक्रमयति, स गुणसंक्रमो 'ज्ञयः' बोद्धव्यः । यदुक्तं कषायप्राभृत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy