________________
२६ ] खवगसेढी
[ गाथा-१४ क्त्वप्रमितं भवति । इह चारित्रमोहनीयक्षपणायां कियद्भवतीति शङ्कापरिहारार्थमाह-"उक्कोसं" इत्यादि, उत्कृष्टमपि अपिशब्दस्य भिन्नक्रमत्वेनाऽत्र योजनात् , स्थितिखण्डं पल्यसंख्येयभागमानं खलु 'खण्डयति' विघातयति, दर्शनत्रिकक्षपणायां घातितावशेषस्थितिसत्कर्मणः सागरोपमपृथक्त्वप्रमाणखण्डा-निर्हत्वात् क्षीणसप्तकस्य स्थितिसत्कर्मणो वृद्धरसंभवाच्च । उक्तं च कषायप्राभृतची-"जहा दंसणमोहणीयस्स उवसामणाए च दंसणमोहणीयस्स खवणाए च कसायाणमुवसामणाए च एदेसिं तिण्हं आवासयाणं जाणि अपुव्वकरणाणि तेसु अपुव्वकरणेसु पढमहिदिखंडयं जहण्णयं पलिदोवमस्स संखेज्जदिभागो उक्कस्सयं सागरोवमपुधत्तं, एत्थ पुण कसायाणं खवणाए जं अपुव्वकरणं तम्हि अपुव्वकरणे पढमहिदिखंडयं जहण्णयं पि उक्कस्सयं पि पलिदोवमस्स संखेज्जदि. भागो।"
ननूत्कृष्टं स्थितिखण्डं पल्योपमसंख्येयभागमानं भवदपि जघन्यतः कियद्गुणं भवति ? इत्यत आह–'अवरत्तो' इत्यादि, 'अपरस्मात्' जघन्यस्थितिखण्डात् संख्येयगुणमुत्कृष्टस्थितिखण्डं भवति । ननु जघन्यस्थितिखण्डतः उत्कृष्टस्थितिखण्ड संख्येयगुणं कियन्तं कालं भवति ? इत्यतः प्राह-'जाव' इत्यादि, यावत् 'तत्करणम्' अपूर्वकरणम्, अपूर्वकरणे प्रथमस्थितिखण्डादारभ्य चरमस्थितिखण्डं यावत् जघन्यस्थितिखण्डत उत्कृष्टस्थितिखण्डं संख्येयगुणं भवतीत्यर्थः ।
जघन्यस्थितिखण्डं कस्य जन्तोर्भवति, उत्कृष्टं पुनः कस्य भवतीति जिज्ञासानोदिता वयमभिदध्महे
एको जन्तुर्दर्शनमोहनीयं क्षपयित्वा यथासंभवं कालान्तरे उपशमश्रेणिमारोहति, तदानीमेवा-ऽन्योऽक्षपितदर्शनमोहनीय उपशमश्रोणि प्रतिपद्यते । तत उभौ पततः । पतित्वा च द्वितीयो जन्तुर्दर्शनत्रिक क्षपयति । तदनन्तरमुभौ जन्तू युगपत् चारित्रमोहक्षपणामुपक्रमेते । तत्रा-ऽपूर्वकरणे प्रथमजन्तोः स्थितिसत्त्वं द्वितीयजन्तुतः संख्येयगुणं भवति, यत उपशमश्रेणी उभयोः स्थितिसत्त्वं मिथः सदृशं जातम् । ततः पुनदर्शनत्रिकक्षपणा-ऽपूर्वकरणे द्वितीयजन्तुना स्वस्थितिसचं संख्येयगुणहीनं क्रियते, प्रथमजन्तुना तु स्वस्थितिसचं संख्येयगुणहीनं न निवेत्येते, उपशमण्यारोहणतः प्राग दर्शनत्रिकस्य क्षपितत्वात् । इत्थं द्वितीयपुरुषतो प्रथमपुरुषस्य स्थितिसत्त्वं संख्ययगुणं भवति । एवं प्रकारान्तरेणाऽपि संख्यातगुणं स्थितिसत्त्वं भावनीयम् । स्थितिखण्डस्य च स्थितिसत्त्वानुसारित्वादपूर्वकरणे द्वितीयपुरुषस्य प्रथमस्थितिखण्डतः प्रथमपुरुषस्य प्रथमस्थितिखण्डं संख्येयगणं सिध्यति । एवमेव द्वितीयपुरुषस्य द्वितीयखण्डतः प्रथमपुरुषस्य द्वितीयखण्डं संख्येयगुणं भवति, एवं तावद्वाच्यम् , यावदपूर्वकरणस्य चरमस्थितिखण्डम् । उक्तं च कषायप्राभूतचूर्णी-"दो कसायक्खवगा अपुवकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org