________________
स्थितिखण्डम् ] अपूर्वकरणाधिकारः
[२५ प्रवृत्तकरणस्य चरमस्थितिवन्धतः पल्योपमसंख्येयभागहीन इतरोऽभिनवः स्थितिबन्धः,चकारः समु. च्चये, 'गुणसेढी' त्ति 'गुणश्रेणिः' गुणेन-प्रतिसमयमसंख्येयगुणक्रमेण दलिकंगृहीत्वाऽन्तमुहूर्तमात्रनिषेकाणामुदयनिषेकादारभ्य प्रतिनिषेकेऽसंख्येयगुणकारेण श्रेणिः-दलरचना, इतिशब्द इयत्ताऽवधारणार्थकः, 'अधिकारपञ्चतयं' स्थितिघातगुणसंक्रमरसघाताऽपूर्वस्थितिबन्धगुणश्रेणिरूपं युगपत्प्रवर्तते । तत्र पञ्चाऽवयवा अस्य समुदायस्येति पञ्चतयम् , “अवयवात् तयट्" ( सिद्धहेम० ७-१-१५१ ) इति सूत्रेण तद्धिततयट्प्रत्ययः, अधिकाराणां पञ्चतयमिति षष्ठीतत्पुरुषसमासः, पश्चानामधिकाराणां समुदाय इत्यर्थः। न चात्रा-ऽधिकारशब्दस्य पञ्चशब्दस्य चा-ऽभेदान्वये पञ्चशब्दस्या-ऽधिकारशब्दसापेक्षत्वेना-ऽसामर्थ्यात्तद्धिता-ऽनुपपत्तिः, "सापेक्षमसमर्थम्" इति वचनादिति वाच्यम्, यतः पञ्चाऽवयवा अस्य समुदायस्येति पञ्चतयमिति प्रथमं व्युत्पाद्य पञ्चशब्दस्याधिकारशब्दमनपेक्ष्येव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । पश्चाच्चा-ऽधिकाराणां पञ्चतयमित्यधिकारशब्दः समुदायेऽन्वेति, तस्य प्रत्ययार्थतया प्रधानत्वात् । न त्वधिकारशब्दस्य पञ्चतयशब्दैकदेशभूतपञ्चशब्देना-ऽभेदान्वयः "पदार्थः पदार्थेनाऽन्वेति न तु तदेकदेशेन", इति न्यायात् । ततश्चाऽधिकारशब्दपञ्चशब्दयोः परस्परवार्ताऽनभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात् संख्यायाः परिच्छेदकत्वस्वभावतया पञ्चत्वस्य परिच्छेद्यपालोचनायां प्रत्यासत्त्याऽधिकारा एव परिच्छेद्यतया सम्बध्यन्ते-पञ्चानामधिकाराणां समुदाय इति ।
"तओ" इत्यादि, 'ततः' अधिकारपञ्चतयस्य युगपत्प्रवर्तनाद् अपूर्वकरणं नाम 'अस्ति' भवति, अपूर्वाणि-अभिनवानि करणानि-स्थितिघातरसघातगुणसंक्रमगुणश्रेणिस्थितिबन्धानां निर्दतनानि यस्मिन् तदपूर्वकरणमिति व्युत्पत्तेरित्यर्थः ॥१२-१३॥
अपूर्वकरणं व्युत्पाद्य तत्र प्रवर्तमानस्थितिघाताऽऽदीनां स्वरूपं व्याजिहीर्घ रादौ स्थितिघातस्य स्वरूपं प्रकटयति
उक्कोसं ठिइखण्डं वि पल्लसंखेज्जभागमाणं । खंडइ अवरत्तो संखेज्जगुणं जाव तक्करणं ॥१४॥ उत्कृष्टं स्थितिखण्डमपि पल्यसंख्येयभागमानं खलु ।
खण्डयत्यपरस्मात् संख्येयगुणं यावत् तत्करणम् ॥ १४ ॥ इति पदसंस्कारः । स्थितिघातो नाम स्थितिसत्कर्मणोऽग्रिमभागात् स्थितिं घातयति । तत्र जघन्यतः पल्योपमसंख्येयभागमात्रं स्थितिखण्डं प्रत्यन्तमुहूत विघातयति । प्रथमौपशमिकसम्यक्त्वोत्पाद-देशविरति-सर्वविरत्यनन्तानुबन्धिविसंयोजना-दर्शनत्रिकक्षपणाप्रभृतिषूत्कृष्टतः स्थितिखण्डं सागरोपमपृथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org