________________
२४ ] . खवगसेढी
[ गाथा १२-१३ भवन्ति, द्वितीयसमये तदन्यानि विशेषाधिकानि भवन्ति, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं तावद्वाच्यानि, यावदपूर्वकरणचरमसमयः । एतानि स्थाप्यमानानि विषमचतुरस्रक्षेत्रमभिव्याप्नुवन्ति । ननु द्वितीयादिसमयेष्वध्यवसायानां वृद्धौ किं कारणम् ? इति चेत् , उच्यते-प्रतिसमयं विशुद्धयन्तः खल्विह प्रतिपत्तारः स्वभावत एव बहवो विभिन्नेष्यध्यवयायस्थानेषु वर्तन्ते । अत्र यथाप्रवृत्तकरणचरमसमयभाव्युत्कृष्टविरोधितोऽपूर्वकरणप्रथमसमये जघन्यविशोधिरनन्तगुणा । ततस्तस्मिन्नेव समय उत्कृष्टा विशोधिरनन्तगुणाः । ततोऽप्यपूर्वकरणस्य द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव समय उत्कृष्टा विशोधिरनन्तगुणा, एवंक्रमेण तावद् वाच्या, यावदपूर्वकरणचरमसमयः । अयं क्रमो गोमूत्रिकोपमया दर्शितः । तथाहि-गौ:बलिबदः, तस्याध्वनि गच्छतो वक्रतयेतस्ततः पतिता मूत्रधारा गोमूत्रिका भण्यते, यथा गोमूत्रिका वामभागतो दक्षिणभागे दक्षिणभागतश्च वामभागे वक्राकारेणाऽऽस्ते, तथैव जघन्यविशोधित उत्कृष्टविशोधिरुत्कृष्टविशोधितश्चाऽनन्तरससमयभाविजघन्यधिशोधिरनन्तगुगक्रमे ग तिष्ठति । तेनायं क्रमो गोमूत्रिकोपमया दर्शितः।
इहाऽपूर्वकरणेऽपि यथाप्रवृत्तकरणवत् प्रतिसमयमूर्ध्वमुखी विशुद्धिरनन्तगुणा,तिर्यङमुखी चषट्स्थानपतिता भवति । नवरमूर्ध्वमुखी विशुद्धिर्नानाजीवापेक्षयाऽपि प्रतिसमयमनन्तगुणा भवति ॥११॥
सम्प्रत्यपूर्वकरणं नाम सान्वर्थमिति व्युत्पिपादयिषुराहबीयकरणपढमसमयओ ठिइघाओ सुहासुहाण तहा। गुणसंकमो असुहपयडीणं अणुभागघाओ य ॥१२॥ अण्णो य द्विइबंधो गुणसेढि त्ति अहिगारपंचतयं । जुगवं पयट्टइ तओ णाम अपुवकरणं अत्थि ॥१३॥
द्वितीयकरणप्रथमसमयतः स्थितिघातः शुभाऽशुभानां तथा । गुणसंक्रमोऽशुभप्रकृतीनामनुभागघातश्च ॥ १२ ॥ अन्यश्च स्थितिबन्धो गुणश्रेणिरित्यधिकार पश्चतयम् ।
युगपत्प्रवर्तते ततो नामाऽपूर्वकरणमस्ति ।। १३ ।। इति पदसंस्कारः । 'बीयः' इत्यादि, 'द्वितीयकरणप्रथम मयतः' अपूर्वकरणप्रथमसमयादारभ्य 'शुभाशुभानां' शुभानाम् आयुर्वर्जसातवेदनीयादीनाम् अशुभानां मतिज्ञानाधरणादीनां स्थितिघातः' स्थितेः प्रत्यन्तर्मुहूर्त पल्योपमसंख्येयभागप्रमाणस्थित्या घातः अपर्वतनाकरणेनाऽल्पीकरणम् , 'तहा'इत्यादि तथा' तथाशब्दः समुच्चये, अशुभप्रकृतीनाम्-अवध्यमानानामप्रत्याख्यानावरणादिप्रकृतीनां 'गुणसङ्क्रमः' गुणेन प्रतिसमयमसंख्येयगुणकारेण सङ्क्रमः अन्यरूपेण परिणमनम् , 'अणुभागविधाओ य' त्ति, घण्टालालान्यायेन 'असुहपयडीणं'ति पदमत्राऽपि सम्बध्यते । ततश्चाऽयमर्थः-अशुभप्रकतीनां मतिज्ञानावरणादीनां 'अनुभागघातश्च' अनुभागस्यबह्वनन्तभागप्रमाणस्य रसस्य 'घातः' खण्डनम् , चकारः समुच्चये, एवमग्रेऽपि । 'अण्णो' इत्यादि, 'अन्यश्च स्थितिबन्धः' अन्यो-यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org