________________
अपूर्वकरणव्याख्यानम् ] अपूर्वकरणाधिकारः
[२३ अथ प्रदेशोदयो निरूप्यते-उदयमानानां प्रकृतीनामजघन्यानुत्कृष्टप्रदेशोदयो भवति ।
सम्प्रति क्रमप्राप्ता प्रकृतिसत्ताऽभिधीयते-दर्शनसप्तक-मनुष्यायुर्वजशेषायुष्कत्रिकलक्षगदशप्रकृतिवर्जशेषाऽष्टाचत्वारिंशदुत्तरशतप्रकृतयः (१४८) क्षपकणेरारोहकस्य सत्तायामुत्कृष्टतो भवन्ति । येन जीवेन जिननाम न बद्धम् , तस्य सत्तायां सप्तचत्वारिंशदुत्तरशतप्रकृतयो (१४७) भवन्ति । येन त्याहारकसप्तकं न बद्धम् , तस्यैकचत्वारिंशदधिकशतं (१४१) प्रकृतयः सत्तायां भान्ति । येन त्वाहारकसप्तकजिननामरूपाऽष्टप्रकृतयो न बद्धाः, तस्य चत्वारिंशदुत्तरशतप्रकृतयः (१४०) सत्तायां भवन्ति । इत्थं यथाप्रवृतकरणे चत्वारि सत्तास्थानानि ।
अथ स्थितिसत्ता भण्यते-मनुष्यायुर्वर्जानां शेषकर्मणां स्थितिमत्ताऽन्तःसागरोपमकोटीकोटीप्रमाणा । अथ रससत्ता निगद्यते-अशुभानां कर्मणां द्विस्थानकरस पत्ता, शुभानां च चतु:स्थानकरससत्ता भवति । अथ प्रदेशसत्ता प्रतिपाद्यते-सर्वप्रकृतीनामजघन्यानुत्कृष्टप्रदेशसत्ता।
संख्येयेषु स्थितिबन्धेषु गतेष्वन्तर्मुहूर्तप्रमाणं यथाप्रवृत्तकरणं परिसमापयति ॥१०॥
“यथोद्देशं निर्देशः" इति न्यायाद् यथाप्रवृत्त करणमभिधाय द्वितीयाधिकारमपूर्वकरणं प्रतिपादयितुमनाः प्राह--
सेकाले कुणइ अपुवकरणमेअम्मि होअइ विमोही। गोमुत्तिकमेण जहण्णा उकोसा अणन्तगुणा ॥११॥ अनन्तरकाले करोत्यपूर्वकरणमेतस्मिन भवति विशोधिः।। गोमूत्रिकाक्रमेण जघन्योत्कृष्टाऽनन्तगुणा ॥११।। इति पदसंस्कारः
'सेकाले' इत्यादि, सेशब्दो मगधदेशप्रसिद्धोऽथार्थकः, अथशब्दश्चात्राऽनन्तरार्थको योध्यः, 'मङ्गला-ऽनन्तरारम्भ-प्रश्न-कात्स्न्येष्वथो अथ ।” इत्यमरकोशवचनात् । एवमग्रेऽपि यथास्थानं व्याख्येयम् । 'अनन्तरकाले यथाप्रवृत्त करणवरमसमयादनन्तरसमये 'अपूर्वकरणं' संसारेऽप्राप्तपूर्वत्वाद् अर्वकरणव्यपदेशाह करणं करोति' विदधाति । यदुक्तं तत्त्वार्थसूत्रवृत्तौ
“स ततः क्षपकश्रेणिं प्रतिपद्य चरित्रघातिनोः शेषाः । क्षपयन् मोहप्रकृतोः प्रतिष्टते शुद्धलेश्याकः ॥१॥ प्रविशत्यपूर्वकरणं प्रस्थित एवं ततोऽपरं स्थानम् ।
तदपूर्वकरणमिष्टं कदाचिदप्राप्तपूर्वत्वात् ॥२॥” इति ।
अपूर्वाणि करणानि-स्थितिघातादीनां निर्वर्तनादीनि यत्रेति व्युत्पत्तिस्त्वनन्तरगाथया मूल एव दर्शयिष्यते ।
___ अथाऽपूर्वकरणे विशोधि प्राह-एअम्मि' इत्यादि, 'एतस्मिन्' अपूर्वकरणे 'विशोधिः' विशुद्धिः 'गोमूत्रिकाक्रमेण' गोमूत्रधारासदृशक्रमेण जघन्योत्कृष्टा चाऽनन्तगुणा भवतीत्युपस्कारः। अयं भावः-इहाऽपूर्वकरणस्य प्रथमसमयेऽसंख्येयलोकाकाशप्रदेशराशिमात्राण्यध्यवसायस्थानानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org