________________
२२ ]
aarसेढी
[ गाथा - ११
वेदनीयद्विकं संज्वलनचतुष्कं नवनोकषाया मनुष्यायुरुच्चैर्गोत्रं चेति नामवर्जशेष कर्मणां त्रयस्त्रिशत्प्रकृ तय उदयन्ति। नामकर्मणस्तु ध्रु वोदया द्वादश मनुष्यगति-पञ्चेन्द्रियजात्यौदा रिकद्विक-वज्रर्षभनारा - चसंहनन-संस्थानषट्क-खगतिद्विक-पराघातोच्छ्वासोपघात -स्वरद्विक त्रसचतुष्क-सुभगादेय-यशः कीर्तिरूपपञ्चविंशतिप्रकृतयश्चोदयन्तीति नानाजीवापेक्षया सप्ततिप्रकृतीनामुदयो भवति । न च कर्मस्तवादिग्रन्थेष्वप्रमत्त गुणस्थान के षट्सप्ततिप्रकृतीनामुदयो निगदितः, अत्र यथाप्रवृत्त करणे सप्ततिप्रकृतीनामुदयः कथमुच्यते ? इति वाच्यम्, तत्र सप्तमगुणस्थानकमाश्रित्योक्तत्वादत्र च क्षपक र धिकारत्वेन प्रथमवर्जसंहनन पञ्चक- सम्यक्त्वमोहनीयरूपपट् प्रकृतीनामुदयासंभवात् ।
अधोदयेन व्यवछिन्नाः प्रकृतय उच्यन्ते
नामकर्मवशेषकर्मणां स्त्यानर्द्धित्रिक मिथ्यात्व - सम्यङ् मिध्यात्व- सम्यक्त्वमोहनीय-द्वादशकषाय-मनुष्यवर्जायुस्त्रय-नीचैर्गोत्ररूपा द्वाविंशतिः प्रकृतयो नामकर्मणश्च मनुष्यवर्जगतित्रिका नुपूर्वीचतुष्क- पश्च न्द्रियवर्जज तिचतुष्क-वैकियद्विकाऽऽहारकद्विक-प्रथमवर्जसंहननपञ्चकाऽऽतपोद्योत- स्थावरसूक्ष्म-साधारणाऽपर्याप्त-दुर्भगाऽनादेयाऽयशः कीर्तिरूपा एकोनत्रिंशत्प्रकृतय उदयेन व्यवच्छिन्ना जाताः । केषांचिज्जन्तूनां जिननामकर्मणस्त्वनुदयो विद्यते, क्षीणकषायगुणस्थानकादूर्ध्वं तेषां तदुदयसंभवात् । उक्तं च कषायप्राभृतचूण- “थोणगिद्धितियं मिच्छत्तसम्मत्त सम्मामिच्छत्तबारसकसाय- मणुसाउगवज्जाणि आउणाणि णिरयगति-तिरिक्खगह- देवगइपाओग्गणामाओ आहारदुगं च वज्जरि सहसंघ उणवज्जाणि सेसाणि संघडणाणि मणुसगइपाओग्गाणुपुव्वी अपज्जत्तणामं असुहतियं तित्थयरणामं च सिया, णीचागोदं दाणि कम्माणि उदयेण वोच्छिण्णाणि " । अत्र “णिरयगइ - तिरिक्खगड - देवगइपाओग्गणामाओ" इत्यनेन नरकगति - तिर्यग्गति- देवगति-मनुष्यवर्जानुपूर्वीत्रिक जातिचतुष्क-वैक्रियद्विका - ऽऽतपोद्योतस्थावर-सूक्ष्म-साधारणप्रकृतीनां ग्रहणं कर्तव्यम् । “असुहतिगं" इत्यनेन दुर्भगानादेयायशः कीर्तीनां ग्रहणं कर्तव्यम् ।
उदीरणा तु वेदनीयद्विक- मनुष्यायुर्लक्षणप्रकृतित्रयं वर्जयित्वा शेषाणामुदयमानानां प्रकृतीनां भवति । तथा चोक्तं कषायप्राभृतचूर्णो- “आउगवेदणीयवज्जाणं वेदिज्जमाणाणं कम्माणं पवेसगो ।"
अथ स्थित्युदयोऽभिधीयते - सर्वकर्मणामुदयप्राप्तस्यैकस्थितिस्थानकस्य तथोदीरणाकरणेन वेदनीयायुर्वर्जशेषकर्मणामुदयावलिकाया उपरितनानामन्तः सागरोपमकोटा कोटिमात्राणां स्थितीनामुदयों भवति ।
प्ररूप्यते - उदयमानानां प्रकृतीनामनुभागो ऽजघन्याऽनुत्कृष्ट
अथानुभागोदयः उद वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org