________________
उदयः ] यथाप्रवृत्तकरणाधिकारः
[२१ ___एवं चतुर्णामुदयस्थानकानां समुदितभङ्गाश्चतुर्विंशत्यधिकाष्टशतोत्तरत्रयोदशसहस्राणि भवन्ति । न्यासः-११५२ + ४६०८ +५७६० + २३०४=१३८२४ ।
ये क्षपकश्रेणी निद्राप्रचलयोरुदयं न मन्यन्ते, तेषां मतेनाऽष्टाधिकषट्चत्वारिंशच्छतं (४६०८) भङ्गा ज्ञातव्याः।
ननु के आचार्याः क्षपकश्रेणौ निद्राद्विकोदयं मन्यन्ते के पुनर्न स्वीकुर्वन्ति ? इति चेत्, उच्यते--प्राचीनकर्मस्तवकारादयस्तु क्षीणकपायद्विचामसमयं यावदभ्युपगच्छन्ति । तथा चा-त्र प्राचीनकर्मस्तवः--"निद्दापयलाए तहा खीणदुचरिमम्मि उदयवोच्छेप्रो।” एतेन सिद्धं यत्क्षपकश्रेणावपि निद्राप्रचलोदयः कर्मस्तवकारादीनां मतेन विद्यते । उक्तं च मेरुतुङ्गसूरिपादैः- "अन्ये तु पुनराचार्याः क्षोणमोहद्विचरमसमयं यावदुदये दर्शनावरणस्य चतस्रःप्रकृतयः पञ्चकंवा ब्रुवते,क्षपकस्याऽपि निद्राप्रचलयोरुदयमिच्छन्तीत्यर्थः।" सप्ततिकाचूर्णिकारादयस्तु क्षपकस्य निद्राप्रचलोदयं न मन्यन्ते । यदुक्तं सप्ततिकाचू
# "खवगा अच्चन्तविहत्ति काउं तेण निद्दापयलागं उदयो नत्थि, अविसुद्धस्स चासंकिलिट्ठस्स वा निद्दोदओ ति ।" उपशमश्रेणौ तु सर्वेऽपि शास्त्रकारा निद्राप्रचलोदयमिच्छन्ति ।
न चोपशमश्रेणिं प्रतिपद्यमानः प्रतिसमयमनन्तगणक्रमेण विशुद्धया प्रवर्धमानो भवति, निद्रोदयश्च चैतन्यापायकारणमस्ति, तेनोपशमश्रेणौ निद्रोदयः कथं भवति, विशिष्टचैतन्यभावादिति वाच्यम्, यतो य उपशमश्रेणौ निद्राद्विकमध्येऽन्यतरस्या उदयः, स तत्र क्षणे सर्वाधिवाधिव्याधिविकल्पव्यपगमसमुद्भूताननुभूतपूर्वसमाधिविलयविशेषे सति योगनिद्रारूप एवाऽवसेयः। निद्राप्रचलोदयेऽपि परिणामविशुद्धिरिष्यते एव, अन्यथा यामद्व यशायिनामपि मुनीनामप्रमत्तगुणस्थानका-ऽनवकाशत्वेन प्रमत्त गणस्थानकस्याऽन्तमु हूतोभ्यधिकः कालःप्रसज्येत,न चाऽयमिष्टः, सिद्धांते प्रमत्तगणस्थानकालस्याऽन्तमु हूर्तमात्रत्वप्रतिपादनात् । वैराग्यतरङ्गतरङ्गितचेतसां च निद्रोदयेऽपि तथाविधसुस्वप्नदर्शनात् विशुद्धः परिणामोऽनुभवसिद्धः । एवं ये क्षपकश्रेणौ निद्राद्विकोदयं मन्यन्ते ।तेषां मते निद्राद्विकोदयो न विशुद्धपरिणामस्य प्रतिबन्धको भवति, इति दिक् ।
अत्रैकजीवमाश्रित्योत्कृष्टतश्चतुःपञ्चाशत्प्रकतय उदयमानाः प्रोक्ताः, नानाजीवगोचरोदयमानप्रकृतयस्तु सप्ततिर्भवन्ति । तथाहि-ज्ञानावरणपञ्चकं स्त्यानचित्रिकवर्जदर्शनावरणषटकमन्तरायपञ्चकं
*उक्त च जयधवलाकारैरपि चारित्रमोहक्षपणाऽधिकारे-“कधं पुण एदस्स खीणकसा यस्स त्रिदियसुक्कज्माणग्गिणा घादिकम्मिधणाणि दहमाणस एदम्मि अत्रत्यंतरे णिद्दापयलाणमुदयवोच्छेदसंभवो, झाणपरिणामविरुद्ध सहवत्तादो त्ति णासंकणिज्ज, अवत्तवसरूवस्त, तदुदयस्स झाणोवजुत्तेसु वि संभवं पडि विरोहाभाबादो।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org