________________
१४ ] खवगसेढी
[ गाथाः ६-८ अथोक्ताऽध्यवसायस्थानानां विशुद्धिमभिधत्ते-'उड्ढमुहा' इत्यादि, "अणुसमयम्" इति पदस्याऽत्राऽपि सम्बन्धाद् , अनुसमयम् ऊर्ध्वमुखी 'शोधिः' विशुद्धिरनन्तगुणा भवति, 'तिर्यक् तु' तिर्यमुखी विशुद्धिस्तु ‘पट स्थाना' पटस्थानविशिष्टा षट्स्थानपतितेत्यर्थः । भावार्थः पुनरयम्-उत्तरोत्तरसमयेऽध्यवसायस्य विमृश्यमाना विशुद्धिरूर्ध्वमुखी विशुद्धिर्भण्यते, विवक्षितैकसमयभाविनां बहूनामध्यवसायस्थानानां मिथो विमृश्यमाना विशुद्धिस्तिर्यमुखी विशुद्धिनिंगद्यते । इह यथाप्रवृत्तकरणे प्रथमसमयतो द्वितीयसमये विशुद्धिरनन्तगुणा भवति, ततोऽपि तृतीयसमयेऽनन्तगुणा भवति, एवं तावद्वक्तव्या, यावच्चरमसमयः । तेन यथाप्रवृत्तकरणे प्रतिसमयमूर्ध्वमुखी विशुद्धिरनन्तगुणा भणिता । तथा यथाप्रवृत्त करणविवक्षिकसमयभाविनामसङ्ख्येयलोकाकाशप्रदेशराशिमात्राणामध्यवसायस्थानानामेकतमस्याध्यवसायस्य विशुद्धिरन्याऽध्यवसायस्थानविशुद्धयपेक्षयाऽनन्तभागवृद्धा वा-ऽसंख्येयभागवृद्धा वा संख्येयभागद्धा वा संख्येयगुणवृद्धा वाऽसंख्येयगुणवृद्धा वा-ऽनन्तगुणवृद्धा वा भवति,एवं षड्विधहानिविशिष्टा-ऽपि भवति । तेन यथाप्रवृत्तकरणे तिर्यमुखी विशुद्धिः षटस्थानपतिता ।
इह यथाप्रवृत्तकरणे या प्रतिसमयमूर्ध्वमुखी विशुद्धिरनन्तगुणा प्रतिपादिता, सैकजीवापेक्षयैव बोद्धव्या, नानाजीवाऽपेक्षया तु षट्रस्थानपतिता सम्भवति । वक्ष्यमाणाऽपूर्वकरणे त्वनेकजीवापेक्षयाऽप्यूर्ध्वमुखी विशुद्धिरनन्तगुणा न विरुध्यते, पूर्वपूर्वसमयभाव्युत्कृष्टविशोधितोऽप्युत्तरोत्तरसमयभाविजघन्यविशोधेरनन्तगुणत्वात् । तिर्य खी विशुद्धिस्तु सर्वत्र नानाजीवापेक्षयैवाऽवगन्तव्या, एकजीवस्यैकसमये नानाऽध्यवसायानामसम्भवात् ॥५॥
__यथाप्रवृत्तकरणे प्रतिसमयमध्यवसायस्थानानि विशोधिभेदेनासंख्येयलोकाकाशप्रदेशराशिमात्राणि प्रोक्तानि । सम्प्रति विशोधितारतम्यमार्यात्रिकेण प्रदर्शयति
करणस्स पढमसमये सव्वत्थोवा जहणिया सोही। तो पढमसंखभागं जाव जहण्णा अणंतगुणा ॥६॥ तत्तो पढमे समये उक्कोसा होअए अणंतगुणा। तो उवरि पढमसमये होइ जहण्णा अणंतगुणा ॥७॥ एवं हेतु उवरि य जाव जहण्णाऽस्थि चरिमसमयम्मि । तत्तो सेसुकोसा कमेण हुन्ते अणंतगुणा ॥८॥
करणस्य प्रथमसमये सर्वस्तोका जघरमा शोधिः । ततः प्रथमसङ्ख्यभागं यावज्जघन्याऽनन्तगुणा ॥६॥ ततः प्रथमे समय उस्कृष्टा भवत्यनन्तगुणा । तत उपरि प्रथमसमये भवति जघन्या-ऽनन्तगुणा ||७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org