________________
अध्यवसायस्थानानि ] यथाप्रवृत्त करणाधिकारः
[ १३ "सुहमोऽहवेयगो इह सुक्कज्झाणेण उहइ कम्म ति। जं वुत्तं तं आसन्नवीयरागत्तणमवेक्ख ॥१॥ दहव्वमनहा ऊ सुहमस्स उ धम्मझाणमेवेगं । होई एवं पुण गुरुयचुन्निभिप्पायओ वुत्तं ॥२॥ लहुचुनिअभिप्पारणं सुक्कज्झाण आइयदुभेयं ।
न विरुद्ध पुव्वधराण होइ सुत्ते जओ भणियं ॥३॥” इति । धर्मध्यानशुक्लध्यानयोः स्वरूपं तु क्षीणकषायगुणस्थानकाद्धाप्ररूपणाऽवसरे वक्ष्यामः ॥४॥
सम्प्रति यथाप्रवृत्तकरणेऽध्यवसायस्थानानि तेषां चोर्ध्वमुखीं तिर्यमुखीं च विशुद्धि निरुरूपयिषुराह
परिणामट्ठाणाइं अणुसमयमसंखलोगमेत्ताणि । उड्ढमुहाऽणंतगुणा सोही तिरिया उछट्ठाणा ॥५॥
परिणामस्थानान्यनुसमयमसङ्घपलोकमात्राणि ।
ऊर्ध्वमुख्यनन्तगुणा शोधिस्तिर्यक् तु षट्स्थाना ॥५॥ इति पदसंस्कारः। 'परिणामहाणाई' इत्यादि, 'परिणामस्थानानि' अध्यवसायस्थानानि 'अनुसमय समये समय इत्यनुसमयम् , “योग्यतावीप्सा.” (सिद्धहेम० ३-१-४०) इत्यनेन मूत्रेण वीप्सायामव्ययाभावसमासः, प्रतिसमयमित्यर्थः, 'असङ्ख्यलोकमात्राणि' विशुद्धिभेदेनाऽसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणानि भवन्ति ।
ननु यथाप्रवृत्तकरणं प्रतिपन्नानां कालत्रयापेक्षया जीवानामनन्तत्वेना-ऽध्यवसायस्थानानामनन्तत्वं कुतो न भवति ? इति चेत् , उच्यते-सत्यम् , स्यादेवम् , यदि यथाप्रवृत्तकरणं प्रतिपन्नानां सर्वेषां जीवानामध्यवसायस्थानानि पृथक् पृथग भिन्नान्येव म्युः, तच्चेह नास्ति, बहूनामेकाऽध्यवसायस्थानवर्तित्वात् । यथा क्वचिदशीतिश्चारित्रिणो दशस्वध्यवसायस्थानेषु वर्तन्ते, अष्टानामष्टानां चारित्रिणामेकाध्यवसायस्थानवतित्वात् ,तथेवेहाऽपि यथाप्रवृत्तकरणं प्रतिपन्नानामनन्तानामनन्तानां जीवानामेकध्यवसायस्थानवर्तित्वात् तेऽसंख्येयेष्वेवाऽध्यवसायस्थानेषु वर्तन्ते । तेन यथाप्रवृत्तकरणे प्रतिसमयमसंख्येयलोकाकाशप्रदेशराशिमात्राण्येवाऽध्यवसायस्थानानि,न ततोऽधिकानि । अयमत्र विशेषः-यथाप्रवृत्तकरणे प्रतिसमयमध्यवसायस्थानान्यसङ्ख्येयलोकाकाशप्रदेशराशिमात्राण्यभिहितानि,तानि न प्रथमादिसमयेषु मिथस्तुल्यानि भवन्ति, किन्तु यथाप्रवृत्तकरणस्य प्रथमसमयतो द्वितीयसमयेऽध्यवसायस्थानानि विशेषाधिकानि भवन्ति, ततोऽपि तृतीयसमये विशेपाधिकानि, एवं तावद् वक्तव्यानि, यावद् यथाप्रवृत्तकरणचरमसमयः । स्थाप्यमानानि पुनरेतानि विषमचतुरस्रक्षेत्रमास्तृणन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org