________________
१२ ]
खवगढी
[ गाथा-४
खण्डानि विघातयति । तत्र चरम स्थितिखण्डे घातितेऽसौ क्षपकः कृतकरणो भण्यते । अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित् कालमपि कृत्वा चतसृणां गतीनामन्यतमायां गतौ समुत्पद्यते, तदानीं च लेश्यापरावृत्तिरपि भवति । एवं दर्शनत्रिकक्षपणायाः प्रस्थापको मनुष्यो भवति, निष्ठापकस्त्वन्यतमश्चतुर्गतिकः । यदुक्तं कर्मप्रकृतिचूर्णी- 'पडवगो उ मणूसो निवगो होइ उसु गईसु" इति । विशेषार्थिना त्वस्मत्कृतोपशमनाकरण वृत्तित्वलोकनीया, तत्र विस्तरेण दर्शन त्रिकक्षपणायाः प्रतिपादितत्वात् ।
अबद्धाको वेदितसम्यक्त्वमोहनीयशेषोऽन्तर्मुहूर्तं विश्रम्य चारित्रमोहनीयादिकक्षपणाय यतते, यद्यसौ न तीर्थ नामसत्कर्मा, तथा चोक्तं श्रीकर्मप्रकृतिचूर्णो- "अह न बडाउओ तो स्ववगसेढिमेव पडिवज्जति, जति न तित्थयरसंतकंमिगो ।” इति । बद्धायुष्कः पुनर्यदि तदानीं कालं न करोति, तथापि नामौ तद्भवे चारित्रमोहादिक्षपणाय यतते किन्तूत्कृष्टतः सातिरेकत्रयस्त्रिशत्सागरोपमाणि व्यतिक्रम्याऽवश्यं चारित्रमोहनीयादिक्षपणाय यतते । चारित्रमोहनीयादिक्षपणाय प्रयतमानो जीव आदौ किं करोति ? इत्यत आह- ' आढवइ' इत्यादि, अप्रमत्तः 'श्रमण: ' श्राम्यति तपस्यतीति श्रमणः संयत इत्यर्थः यथाप्रवृत्तकरणमारभते । अयं भावः - क्षीणसप्तकः प्रमत्तगुणस्थानकमप्रमत्तगुणस्थानकं च बहुशः स्पृशति, ततश्चारित्रमोहनीयादिक्षपणायोग्यविशुद्धि प्राप्तो वर्षाष्टकस्योपरि वर्तमानोऽसौ प्रथमसंहननोऽप्रमत्तसंयतो यथाप्रवृत्तकरणं करोति । तत्र पूर्व - विदप्रमत्तश्चेत्, तर्हि शुक्लध्यानोपगतोऽपि अन्ये तु धर्मध्यानोपगताः । इदं तु शतकलघुचूर्णिकृदाद्यभिप्रायेण बोध्यम्, तच्च न विरुध्यते, ध्यानशतककृद्भिरप्रमत्तानामपि पूर्व - धराणां शुक्लध्यानद्वयस्य स्वीकारात् । तथा च तद्ग्रन्थः
" सव्वष्पमायरहिया मुणओ खोणोवसंतमोहा य । ज्झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ॥ १ ॥
-
एएच्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । ..." इति । अयं भावः- ये धर्मध्यानस्य ध्यातारोऽप्रमत्तसंयतादयो भवन्ति, त एव पूर्वयोः - पृथक्त्ववितर्कसविचारकत्ववितर्काऽविचारलक्षणयोर्ध्यायिनो भवन्ति, अयं तु विशेषः - सुप्रशस्तसंहननाः आद्यसंहननयुक्ताः पूर्वधराः = चतुर्दशपूर्व विदस्तदुपयुक्ताः, इदं त्वप्रमत्तसंयतानां विशेषणम्, निर्ग्रन्थानां तु माषतुषादिवदन्यथाऽपि शुक्लध्यानोपपत्तेः । तदेवं क्षपकश्रेणि प्रतिपन्नस्य पूर्वविदः शुक्लध्यानद्वयं न विरुध्यते ।
शतकबृहच्चूर्णिकारादीनामभिप्रायेण पुनः सर्वे श्रेणिं प्रतिपत्तुकामा धर्मध्यानोपगता एव भवन्ति, सूक्ष्मसम्परायं यावद् धर्मध्यानस्यैव स्वीकारात् । न चैतत्स्वमनीषिकयाऽभिहितम्, शतकभाष्यकारैरप्युक्तत्वात् । तथा च तद्ग्रन्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org