________________
दर्शनत्रिकस्य क्षपणा ] यथाप्रवृत्तफरणाधिकारः
[ ११ मावश्यकचूर्णी-"अणंताणुवंधिकोह-माण-माया-लोभा जुगवं खवंति,पच्छा ताणं अणंतभागं मिच्छत्तवेयणिज्जे कम्मे छभति,नाहे तं खवेति ।” इति ।
इह कालान्तरे कश्चिद् मिथ्यात्वोदयाद् भूयो-ऽप्यनन्तानुबन्धिन उपचिनोति, तद्बीजस्य मिथ्यात्वस्याविनाशात् । अन्यस्तु विनाशितानन्तानबन्धी जीवो जघन्यतोऽन्तमुहर्तमानं कालमुत्कृष्टतच सागरोपमाणां सातिरेके द्वे पट्पष्टी व्यतिक्रम्य दर्शनत्रिकक्षपणाय प्रयतते । तत्र जिनविहरणकालसंभवी वर्षाष्टकस्योपरि वर्तमानः प्रथमसंहननो मनुष्यो दर्शनत्रिकक्षपणार्थ यथाप्रवृत्तादीनि त्रीणि करणानि करोति । तत्रादो तावद् यथाप्रवृत्त कागं करोति, ततोऽपूर्वकरणम् । अपूर्वकरणेऽनुदितयोमिथ्यात्व-सम्यमिथ्या क्योलिक गुणसंक्रमेण सम्यक्त्वमोहनीये प्रक्षिपति, उद्वलनासंक्रममपि तयोरारभते । तद्यथा-प्रथमस्थितिखण्डं बहत्तरमुद्वलयति, ततो हिलीयं विशेषहीनम् , ततस्तृतीयं विशेषहीनम् ,ततोऽपि चतुर्थ विशेषहीनम् । एवं तावद्वाच्यम् , यावदपूर्वकरणचरमस्थितिखण्डम् । ततो-ऽनिवृत्तिकरणं विधत्ते । तत्र स्थितिघातादयः पूर्ववत् प्रवर्तन्ते । अनि वृत्तिकरणे प्रथमसमयतो दर्शनमोहस्य देशोपशमना-निधति-निकाचनाकरणानि व्यवच्छिद्यन्ते । दर्शनत्रिकस्य स्थितियत्कर्माऽनिवृत्ति करणप्रथमसमयादारभ्य स्थितिघातादिभिर्धात्यमानं स्थितिखण्डसहस्रषु गतेष्वमंतिपञ्चेन्द्रियस्थितिसत्कर्मतुल्यं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति, ततोऽपि तावन्मात्रषु स्थितिखण्डेषु वजितेषु त्रीन्द्रियस्थितिसत्कर्मतुल्यं भवति । ततः पुनस्तावन्मात्रेषु स्थिति वण्डेषु व्यतिक्रान्तेषु द्वीन्द्रियस्थितिसत्कर्म समानं भवति । ततस्तावन्मात्रेषु स्थितिखण्डेषु व्यतीतेष्वेकेन्द्रियस्थितिसत्कर्मतुल्यं स्थितिसचं भवति । ततोऽपि तावन्मात्रेषु स्थितिखण्डेषु गतेषु स्थितिसचं पल्पोपममात्रं जायते, ततो दर्शनत्रिकस्य स्थितिसत्कर्मण एकं संख्येयभागं विमुच्य शेषान् संख्येयान् बहून् भागान् विनाशयति । एतच्च कर्मप्रकृतिचूर्णिकाराद्यभिप्रायेण प्रोक्तम् । पञ्चसंग्रहकाराभिप्रायेण तु पल्योषमसंख्येयभागमात्रस्थितिसत्कर्मभवनानन्तरं स्थितिसत्कर्मणः संख्येयान् भागान् विनाशयति । एवं स्थितिघाताः सहस्रशो गच्छन्ति, तदनन्तरं मिथ्यात्वस्याऽसंख्येषभागान् विनाशयति, सम्यक्त्वमोहनीयसम्यमिथ्यात्वमोहनीययोस्तु पूर्ववत् संख्येयान् भागान् विनाशयति । अनेन क्रमेण बहुषु स्थितिखण्डेषु गतेषु मिथ्यात्वमुदयावलिकारहितं सर्व क्षीणम् । यच्चावलिकागतम् , तत् स्तिबुकसक्रमेण सम्यक्त्वमोहनीये प्रक्षिपति । तदानीं सम्यक्त्वमोहनीय-सम्यमिथ्यात्वमोहनीययोः स्थितिसत्कर्म पल्योपमाऽसंख्येयभागमात्रमवतिष्ठते । तस्याऽसंख्येयभागान् स्थितिखण्डेन विनाशयति, एकमसंख्येयभागं मुञ्चति । ततःप्रभृतेषु स्थितिखण्डेषु व्रजितेषु सम्यमिथ्यात्वमावलिकामात्रमवतिष्ठते, शेषं सर्व क्षीणम् ,सम्यक्त्वमोहनीयस्य च स्थितिसत्कर्माऽष्टवर्षमात्रं भवति । अष्टवर्षमात्रस्थितिसत्कर्मा निश्चयनयमतेन दर्शनमोहनीयक्षपक उच्यते । ततः परमान्तर्मोहूर्तिकान्यनेकानि स्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org