________________
१०] खबगसेष्टी -
गाथा-४ इत्यादिगाथाभिः । सप्तमो-ऽधिवारः क्षीणकपायाद्धा, प्रतिपादयिष्यते च “से कालेऽवगयकसायगुणं" इत्यादिगाथाभिः ।
"तह' इत्यादि,तथा 'सयोगिगुणस्थानं' "भीमो भोमसेनः" इति न्यायात् पदेकदेशेन पदसमुदायस्य गम्यमानत्वात् सयोगिकेवलिगुणस्थानकमष्टमोऽधिकारोऽस्ति,कथयिष्यते च 'सेकाले पावेई" इत्यादिगाथाभिः । 'अयोगिगुणस्थानच' अयोगिकेवलिगुणस्थानकं च नवमो-ऽधिकारोऽस्ति, वर्णयिष्यते च 'सेकाले लहई" इत्यादिगाथाभिः ।।२, ३॥
अथ "यथोदेशं निर्देशः" इति न्यायेन प्रथमाऽधिकारं विवर्णयितुकामः प्राहअणचउगं दिद्वितिगं च खविय उज्जमइ सेसखवणाए । आढवइ अप्पमत्तो अहापवत्तकरणं समणो ॥४॥ अनचतुष्कं दृष्टित्रिकच क्षपयित्वोद्यच्छते शेषक्षपणाये।
आरभतेऽप्रमत्तो यथाप्रवृत्तकरणं श्रमणः ।।४।। इति पदसंस्कारः । 'अणचउर्ग' इत्यादि-'अनचतुष्कम्' पदकदेशेन पदसमुदायस्य गम्यमानत्वाद् अनन्तानुबन्धिचतुष्कम् अनन्तानुवन्धिक्रोध-मान-माया लोभलक्षणम् , 'दृष्टित्रिकञ्च' मिथ्यात्वमोहनीयसम्यमिथ्यात्वमोहनीय-सम्यक्त्वमोहनीयलक्षणं दर्शनत्रिकं च 'क्षपयित्वा' निःसत्ताकीकृत्य 'शेषक्षपणायै शेषाणाम् अप्रत्याख्यानावरण-प्रत्याख्यानावरण-संज्वलनकषाय-नवनोकशायरूपमोहनीयस्य ज्ञानावरणादीनां च क्षपणायै विनाशाय 'उद्यच्छते' चेष्टते जीवः । अयम्भावः-चतुर्गतिकोऽविरतसम्यग्दृष्टिर्देशविरतस्तिर्यङ् मनुष्यो वा सर्वविरतस्तु मनुष्य आन्तौहूर्तिकानि यथाप्रवृत्तकरणाऽपूर्वकरणाऽनिवृत्तिकरणाख्यानि त्रीणि करणानि कुरुते, तत्रा ऽपूर्वकरणप्रथमसमयतः प्रभृति स्थितिघातं रसघातमपूर्वस्थितिबन्धं गुणश्रेणि गुणसंक्रमं च करोति,तथाऽनन्तानुवन्धिक्रोध-मान-माया-लोभानां प्रदेशाग्रं गुणसङ्क्रमेणोद्वलनासंक्रमानुविद्धन विनाशयति शेषकषायत्वेन स्थापयतीत्यर्थः । अपूर्वकरणं विधायाऽनिवृत्तिकरणं कुरुते । तत्र चाऽनन्तानुबन्धिनां स्थिति यथाक्रममपवर्तनाकरणेन घातयन् पल्योपमाऽसंख्येयभागप्रमाणां विधत्ते । अपवर्तनाविधिश्च कर्मप्रकृत्युक्तोद्वलनासक्रमवद् बोध्यः। अनन्तानुवन्धिनां पल्योपमाऽसंख्येयभागप्रमाणस्थितिगतमपि दलमधस्तादावलिकामानं परित्यज्य बध्यमानमोहनीयप्रकृतिषु प्रतिसमयमसंख्येय गुणक्रमेण परिणमयंश्चरमसमये सर्वसङ्क्रमेण परिणमयति । यच्चावलिकागतं दलिकम् ,तत् स्तिबुकर न मेण वेद्यमान सु परप्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात् परतोऽनिवृत्तिकरणपर्यवसाने शेतकर्मणामपि स्थितिघातादीन् न करोति, किन्तु स्वभावस्थ एव भवति ।
आवश्यकचूर्णिकाराद्यभिप्रायेण त्वनन्तानुबन्धिनामनन्ततमभागप्रमाणं दलं मिथ्यात्वे प्रक्षिपति,ततो यदा दर्शनत्रिकक्षपणामारभते, तदा मिथ्यात्वं तदंशेन सहैव क्षपयति । तथा चोक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org