________________
नवाधिकारप्रतिपादनम् ]
यथाप्रवृत्तकरणाधिकारः
[s
अभिहितं मङ्गलाभिधेयादि । सम्प्रति क्षपकश्रेणिं प्रतिपादवितुकाम आदौ तावत् तस्या
tar-sधिकारान् गाथायेन प्राह
तत्थ य णव अहिगारा अहापत्र तकरणं तह हवे | करणमपुत्रं हवए सवेअअणियट्टिकरणं च ॥२॥ हयकण्ण-किट्टिकरण-तयणुहव अवगय कसायअद्धा य । तह अस्थि सजोगिगुणट्टणमजोगिगुणठाणं च ॥३॥
तत्र च नवाधिकारा यथाप्रवृत्तकरणं तथा भवति । करणमपूर्वं भवति सवेदा ऽनिवृत्तिकरणं च ॥ २ ॥ कर्ण - किट्टिकरण- तदनुभवाऽपगत रुपायाद्वा च ।
तथाऽस्ति सयोगिगुणस्थानम योगिगुणस्थानञ्च ||३|| इति पदसंस्कारः ।
1
'तत्थ' इत्यादि, 'तत्र च' ग्रन्थरूपायां क्षपकश्रेणी 'नव' नवसङ्ख्याका अधिकाराः सन्तीत्युपस्कारः । अथाऽधिकारान् नामग्राहं भणति - 'अहापचत्तकरणं' इत्यादि, प्रथमोऽविकारो यथाप्रवृत्तकरणम्, कथयिष्यते च "अणच उगं" इत्यादिगाथाभिः । तथाशब्दः समुच्चये, एवमग्रेऽपि, 'करणमपूर्वम्' द्वितीयोऽधिकारोऽपूर्वकरणं भवति । भाषिष्यते च "काय वं सेकाले” इत्यादिगाथाभिः । 'हवए सवेअअणियटिकरणं च'त्ति चकारः समुच्चये, एवमग्रेऽपि, तृतीयोऽधिकारः सवेदानिवृत्तिकरणं भवति, तत्र वेदेन - वेदोदयेन सह सवेदम्, "सहस्तेन" (सिद्धहेम० ३-१-२४ ) इत्यनेन सूत्रेण बहुव्रीहिसमासः, सवेदं च तद निवृत्तिकरणं च सवेदाऽनिवृत्तिकरणम् । एतदुक्तं भवति - अनिवृत्तिकरणस्य प्रथमसमयात् प्रभृति पुरुषवेदोदयचरमसमयं यावद् या क्षपणप्रक्रिया भवति, साऽस्मिन्नधिकारे निरूपयिष्यते । प्रतिपादयिष्यते चाऽयमधिकारः "सेकाले अनियहिं" इत्यादिगाथाभिः ।
6
'हयकण्ण०' इत्यादि, 'हयकर्ण - किट्टिकरण- तदनुभवा ऽपगतकषायाद्धा च' करणशब्दो द्वाभ्यां सम्बध्यते, अद्धाशब्दश्च प्रत्येकमभिसम्बध्यते, “न्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते । "इति न्यायात् । ततथायमर्थः -हयकर्ण करणाद्धा, किट्टिकरणाद्धा, तदनुभवाद्धा = किट्टिवेदनाद्वा, तच्छब्दस्य पूर्ववस्तुपरामर्शित्वेन कि: पर मर्शाई, अरगत रुपायाद्धा क्षीणकषायकालो द्वादशगुणस्थानककाल इत्यर्थः, तत्र सर्वथा कषायापगमनदर्शनात् । न चाऽपगतकपायशब्देन सयोगिकेवलिगुणस्थानका-ऽयोगिकेवलिगुणस्थानकेऽपि कुतो न गृह्येते ? इति वाच्यम्, तयोरग्रे वक्ष्यमाणत्वेन तत्र पुनरुक्तताप्रसङ्गात् । भावार्थः पुनरयम् - चतुर्थोऽधिकारो हयकर्णकरणाद्धा, विवर्णयिष्यते च "हकण्णा०" इत्यादिगाथाभिः, इहाऽपूर्वकरणवदनिवृत्तिकरणमेकाऽधिकारमनभिधायाऽनिवृत्तिकरणे यत् पृथक्पृथक्सवेदाऽनिवृतिकरण- हय कर्णकरणाद्धादिकाऽभिधानम् तत्प्रयोजनमग्रे वक्ष्यते । पञ्चमोऽधिकारः किट्टिकरणाद्वा, दर्शयिष्यते च "पुणे हथकण्णे" इत्यादिगाथाभिः । षष्ठोऽधिकारः किट्टिवेदनाद्वा, निरूपयिष्यते " तत्तो य कोहपढमं "
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org