________________
खवगसेढी
[गाथा-१ कर्मनिर्जरा वा ग्रन्थग्रथनलक्षणस्वाध्यायादभ्यन्तरतपसो बहुतरनिर्जरासंभवात् । स्वदृढस्मृ.. तिर्वा, ग्रन्थविरचनादिना हि तत्कतुः स्मृतिढा दृढतरा दृढतमा च जायते ।
परम्परप्रयोजनं त्वपवर्गावाप्तिः, धर्मोपदेशदानस्य हि मोक्षफलत्वात् । तथा चोक्तम्"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां समाप्नोत्यचिराच्छिवम् ॥१॥" इति ।
श्रोतुरनन्तरं प्रयोजनं तु क्षपकश्रेणिविषयकं ज्ञानम्, परम्परं तु निर्वाणावाप्तिः । तथाहि-विज्ञातसारभूतकर्मक्षपणाक्रमाः प्राणिनः प्रकृत्यसारात् संसाराद् विरज्यन्ते । ततः कर्मक्षयाय प्रयत्नं समाचरन्ति,क्षीणे च कर्मणि निःश्रेयसमासादयन्ति । यदुक्तम्
"सम्यकशास्त्रपरिज्ञानाद् विरक्ता भवतो जनाः ।। क्रियासक्ता ह्यविघ्नेन गच्छन्ति परमां गतिम् ॥१॥" इति ।
मङ्गला-ऽभिधेय-प्रयोजनानि प्रोक्तानि, सम्प्रति प्रेक्षावतां प्रवृत्त्यर्थं सम्बन्धोऽपि वक्तव्यः । यदुक्तम्
"उक्तार्थ ज्ञातसम्बन्धं श्रोतु श्रोता प्रवर्तते ।
शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥" इति । स च द्विविधः, गुरुपर्वक्रमलक्षण उपायोपेयस्वरूपश्चेति । तत्रायः श्रद्धाऽनुसारिणः प्रति, स च "गुरुपसाया” इत्यनेन दर्शितः । तथाहि-धनघातिकर्मचतुष्के विलयमापादिते लब्धलोकालोकप्रकाशककेवलज्ञानेनाऽष्टमहापातिहार्यपरमार्हन्त्यसम्पत्समद्धेन भगवता श्रीमहावीरेण संसारमहीरुहोन्मूलनैकहेतुपञ्चत्रिंशद्गुणसमन्वितसर्वजगजन्तुजातस्वस्वभाषापरिणामिभारत्या सुरासुरनरेश्वरनिकरपरिकरितपर्षद्यर्थतः कर्मक्षपणाक्रमः प्रतिपादितः स च गणभृता सुधर्मस्वामिना सूत्रतो रचितः। तदनु जम्बूस्वामि-प्रभव-शय्यम्भव-यशोभद्र-सम्भूतिविजय-भद्रबाहु-स्थूलभद्रकर्मप्रकृतिकार-सप्ततिकाकार-कषायप्राभृतकार-तच्चूर्णिकार-त्तिकारादिभिः स्वकीयस्वकीयशास्त्रेषूपनिबद्धः । ततस्तत्तच्छास्त्राध्ययनाऽध्यापनादिना समानीतो यावदस्मद्गुरुचरणाः। ततो विनययावृत्त्यादिना प्रसन्नस्तैमा प्राध्यापितः । इत्थं परम्परया सर्वज्ञमूलकर्मक्षपणाक्रमो यस्मात् गुरुप्रसादाद् मया प्राप्तः, तमेवाश्रित्य परम्परया समागतं क्षपणाक्रम क्षपकश्रेणिग्रन्थरूपेण भवन्तं वक्ष्यामीति, तदेवं “गुरुपसायः" इत्यनेन गुरुपर्वक्रमलक्षणः सम्बन्धः सूचितः। उक्तसम्बन्धविरहे तु छमस्थावस्थाऽगोचरविविधाऽतीन्द्रियपदार्थसार्थप्रतिपादके शास्त्रे सुधियो न प्रवतेरन्, अभिदध्युश्च ते यथा-नाऽऽरम्भणीयमेतच्छास्त्रम्, सम्बन्धवन्ध्यत्वात् स्वेच्छारचितशास्त्रवदिति ।
द्वितीयस्तु तर्कानुसारिणः प्रति । स चैवम्-वचनरूपाऽऽपन्नः क्षपकश्रेणिग्रन्थ उपायः, तत्परिज्ञानं चोपेयम् । सामर्थ्यादेष सम्बन्धो ज्ञायते, साक्षात् तु नासो कथितः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org