________________
अभिधेयादि )
खवगसेढी
इत्थं कृतमङ्गलोपन्यासः शास्त्रकृत् क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वात् तां व्याहरति-'वुच्छामि' त्ति 'वक्ष्यामि' भणिष्यामि । काम् ? इत्याह-खवगसेटिं' ति 'क्षपकश्रेणि' क्षपकस्य कर्माणि क्षपयतः श्रेणिःक्रमः क्षपकश्रेणिः, ताम् . क्षपणाक्रमश्चायम्-आदौ मोहनीयम् , ततो घातित्रयम् , ततोऽघातिचतुष्कं विनाशयति । प्रयोजनं अन् पुनः प्राह-'सपरहिअट्ठ' ति 'स्वपरहितार्थम् ',स्वस्य-आत्मनः परेषाम् अन्येषां च, हितं मोक्षः, स्वपरहितम् , तदेव अर्थ: प्रयोजनं यत्र तत्तथा, क्रियाविशेषणत्वात् "क्रियाविशेषणात्" (सिद्ध हेम० २-२-४१) इत्यनेन सूत्रेण द्वितीया विभक्तिः।
साम्प्रतं स्वस्यौद्धत्यं परिहरन् प्राह-'गुरुपसाय ति गुरुप्रसादात्' तत्र गृणन्ति=उपदिशन्ति धर्ममिति गुरवः, अर्थापेक्षया तीर्थङ्कराः, सूत्रापेक्षया तु गणधराः, यत् प्रत्यपादि "अत्थं भासह अरहा सुत्तं गंथंति गणहरा निउणं ।” इति ।।
यद्वाऽस्मदादिगुरुपर्यन्ताः सर्वे गुरुपदवाच्याः, तेषामपि सूत्रार्थप्रदानतो धर्मोपदेशकत्वस्याऽक्षतत्वात् । विशेषतस्तु परमगीतार्थानामशेषशेमुपीशालिकुलविद्वस्यमानानां सकलागमरहस्यज्ञानां भीमकान्तादिगुणैर्गरिष्ठानां श्रीमद्विजयदानसूरीश्वराणां विनेयवृषभा गच्छाधिपतयो-ऽनेकबाल युववृद्धमुनिपुङ्गव पृङ्गः संसेव्यमानचरणारविन्दाः प्रातःस्मरणीयाः श्रीमविजयप्रेमसूरीश्वरा गुरुपदेन ग्राह्याः, प्रवज्याप्रदान-सम्यग्ज्ञानदानादिना तेषामासनोपकारित्वात् । तेषाम्, प्रसादात्= अनुग्रहात् , न तु निजबुद्धिप्रतिभादिवलात् । शक्तिविकला अपि जना गुरुप्रसादाद् दुष्कराणामपि कार्याणां पारं प्रयान्तीति श्रदधानोऽहमपि गुरुप्रसादात क्षपकश्रेणिग्रन्थग्रथने समर्थो भूत्वा तां वक्ष्यामीति भावः ।
'खवगसेटिं' इत्यनेन प्रेक्षावत्प्रवृत्यर्थमभिधेयनिर्देशः कृतः, एतदुक्तौ हि शास्त्रश्रवणादिप्रवृत्तः । उक्तं च
"श्रुत्वाऽभिधेयशास्त्रादौ पुरुषार्थोपकारकम् ।
श्रवणादौ प्रवर्तन्ते तज्जिज्ञासादिनोदिताः ॥१॥” इति । 'सपरहिअट्ट' इत्यनेन प्रयोजनं दर्शितम् ,तद्विना कृतिनां प्रवृत्यभावात् । न्यगादि च- .
"प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते ।
एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं भवेत् ॥१॥” इति ।
तच्च प्रयोजनं शास्त्रक श्रोत्रोरनन्तरपरम्परभेदाच्चिन्त्यम् । तत्र शास्त्रकर्तुरनन्तरं प्रयोजनं सत्चानुग्रहः, बहुविस्तरशास्त्रपठनायसमर्थानां संक्षिप्तरुचिजन्तूनां संक्षिप्तशास्त्र प्रवृत्तेः। यदुक्तम्
"सुयसायरो अपारो आऊ थोवं जिआ य दुम्मेहा। तं किं पि सिक्खियव्वं जं कज्जकरं च थोवं च ॥१॥" इति ! .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org