________________
खगढी
[ गाथा - १
ननु प्रस्तुतग्रन्थः श्रुतरूपत्वात् श्रुतस्य च ज्ञानपञ्चकान्तःपातित्वेन तस्य भावनन्दित्वात् स्वयमेव मङ्गलम् । यदुक्तम् - "तंच सुयनाणं मंगलं, कम्हा ? भन्नइ गंदी भावमंगलं ति काउं ।” इति । अपि च क्षपकश्रेणिग्रन्थो निर्जरार्थः तथा च सति तपोवत् सर्व एव ग्रन्थो मङ्गलम् । इह "पणमिअ" इत्यादिमङ्गलोपन्यासात् त्वस्य ग्रन्थस्यामङ्गलता प्रसज्यते, अमङ्गले मङ्गलोपादानस्य सार्थक्यात् । यदि पुनर्मङ्गलेऽप्यस्मिन् ग्रन्थेऽन्यन्मङ्गलं क्रियते, तर्ह्यनवस्था । तथाहियथा मङ्गलस्याऽप्यस्य ग्रन्थस्य सतोऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य सतो - ऽन्यद् मङ्गलमुपादेयम्, तस्याऽप्यन्यद् अन्यस्याऽप्यपरम्, अपरस्याऽप्यन्यदित्येवमनवस्थाssपततीति चेत्, न, अस्य हि ग्रन्थस्य मङ्गलरूपत्वेऽपि " पणमिअ" इत्यादिना कृतस्य मङ्गलस्य न नैरर्थक्यं नवाऽनवस्था । तद्यथा - यतोऽयं क्षपकश्रेणिग्रन्थो मङ्गलम्, तत एवाऽस्यैकदेशोभीष्टदेवतास्तुतिख्यापको मङ्गलत्वेन ज्ञापितः । न मङ्गलपदार्थस्यावयवे कदापि मङ्गलत्वं सम्भवति, कटुनिम्बैकदेशे माधुर्याऽसम्भववत् । यच्चात्र ग्रन्थैकदेशस्य विभज्य मङ्गलत्वेन प्रादुष्करणम्, तद् अस्य ग्रन्थस्याऽपरिकर्मितमतीनां जनानां मङ्गलत्वप्रत्ययनाय, अनास्वादितमोदकानां तन्माधुर्यावबोधाय तत्कणिकासमर्पणवत् ।
}
,
किञ्च यद्येतावानप्यस्य ग्रन्थस्यावयवः सर्वेष्टार्थसम्पादनक्षमः, तर्हि समस्तो- ऽयं ग्रन्थोऽभ्यस्तोऽस्माकं महते समभ्युदयाय भविष्यतीति विशेषावगमाद् विशेषतः प्रवर्तेरन्निह प्राथमिकाः, तथा शास्त्रकृतामपि सर्वा प्रवृत्तिर्मङ्गलाय भिधानपूर्विका भवति । यदुक्तं तै:
"प्रेक्षावतां प्रवृत्त्यर्थं फलादित्रितयं बुधैः ।
मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥” इति ।
प्रकृते गाथार्धेन तीर्थकृतः सर्वस्वपर संपत्संहतिसर्वस्वदेश्याश्चत्वारोऽतिशया अपि संसूचिता भवन्ति । तथाहि-- श्रीपार्श्वजिनमित्यत्र जयति रागद्वेष मोहानिति जिनः " जीणशीदीबुध्यविमीभ्यः कितु” (उणादि - २६१) सूत्रेण नप्रत्ययः, इति व्याख्यानेनाऽपायापगमातिशयः संज्ञापितः, अत्र च श्रीशब्दस्य केवलज्ञानलक्ष्मीरिति व्यक्तीकरणेन ज्ञानातिशयो बोधितः । सुरासुरनरेद्रवन्दितमित्यनेन पूजातिशयः प्रकटितः । नाथमित्यनेन वचनातिशयोऽभिव्यज्यते, तथाहि -नाथो योगक्षेमकरः, प्रागुक्तौ योगक्षेमो सर्वजगज्जन्तुजातचित्तचमत्कारिसुरनिकररचिताऽष्टमहाप्रातिहार्य कृतपूजस्य लोकालोकप्रकाशक केवलज्ञानयुक्तस्याऽपगतघातिकर्मणस्तीर्थकृतो मुखारविन्दाद् विनिर्गतयैककालानेकजन्तुसंदेहसंदोहापनयनकारिण्या विश्वसच्चस्वस्वभावापरिणामिन्या भारत्या पि संभवतः, इत्थं नाथमित्यनेन भगवतो वचनातिशयः संदिष्टः । एते चत्वारोऽपि देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्,तानन्तरेणैषामसंभवात् । तेन चतुरतिशयै चतुस्त्रिंशदप्यतिशया गाथायाः पूर्वार्धेन निष्टङ्कयन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org