________________
मङ्गलाचरणम् ]
aartar
["
त्पार्शः, अथवा पार्श्वः = पार्श्वनामा यक्षो भगवतो वैयावृत्यकरः, तस्य नाथः पार्श्वनाथः, ततः “ते लुग् वा” (सिद्धहेम० ३-२-१०८) इत्यनेन सूत्रेण नाथशब्दस्य लोप:, तेन पार्श्वः, जयति रागद्वेषमोहानिति जिनः पार्श्वश्वासौ जिनश्च पार्श्वजिनः, उपान्त्यजिन पतिरित्यर्थः, श्रीः केवलज्ञानलक्ष्मीलक्षणाऽष्टमहाप्रातिहार्यस्वरूपावा, तया युक्तः पार्श्वजिनः श्रीपार्श्वजिनः, तम् । किंविशिष्टं श्रीपाद नाथम् ? इत्याह- 'णाहं' ति' नाथम्" नाथुङ् उपनापैश्वर्याशीः षु च” नाथति = इष्टे = ईश्वरो भवतीति नाथः, नाथवातो: "अच्" (सिद्ध हेम ० ५-१-४९) इत्यनेन सूत्रेण कर्तरि अच्प्रत्ययः, घनघातिकर्मपदलक्षयेण परप्रवादिचेतश्चमत्कार्यष्टमहाप्रातिहा यैश्वर्यैयुक्तत्वात्तस्यैव - मार्थतो नाथत्वं घटते, न त्वैहिकभूपत्यादीनाम् । यद्वा धातूनामनेकार्थत्वात् नाथति = योगक्षेमौ करोतीति नाथः, पूर्ववद् अच्प्रत्ययः । तत्राप्राप्तानां सम्यक्त्वादीनां प्राप्तिर्योगः, प्राप्तानां सम्यक्त्वादीनां संरक्षणं क्षेमः । तीर्थकृतामचिन्त्यमाहात्म्यादेव भव्याः प्रागप्राप्तसम्यक्त्वादीनश्नुवत इति योगकरत्वं तीर्थकृताम् । प्राप्त नम्यवादयो भव्यास्तीर्थ कृन्माहात्म्यात् तत्तद्रागाद्युपद्रवाद्यभावेन सम्यक्त्वादिषु स्थिरीभवन्तीति क्षेमकृवं तीर्थकृताम् । अतो युक्तियुक्तमेतद्-भव्यानां योगक्षेमकरो भगवानिति, तम् । पुनः किंविशिष्टम् ? इत्याह- 'सुरअ सुरणरिंदवंदिअं' ति 'सुरासुरनरेन्द्रवन्दितम् ' "सुरत् ऐश्वर्य दीप्त्योः" सुरन्ति = विशिष्टैश्वर्यमनुभवन्ति, यद्वा दिव्याभरणकान्त्या सहजशरीरकान्त्या च दीप्यन्त इति सुरा: "नाम्युपान्तप० " ( सिद्धहेम ०-५-१-५४ ) इत्यनेन सूत्रेण कर्तरि कप्रत्ययः, यदि वा “रज्जू दोसौं ”सुष्ठु राजन्त इति सुराः, "क्वचित् ” (सिद्धम० ५-१-१७१) इत्यनेन सूत्रेण डप्रत्ययः, अथवा सुन्वन्तीति सुराः, यद्वा सुरा एषामस्तीति सुर: “अनादिभ्यः” (सिद्धहेम०७-२-४६) इत्यनेन अप्रत्ययः, यतोऽब्धिजा सुरा तैः पीतेति प्रसिद्धम्, देवा इत्यर्थः । "असूच् क्षेपणे" अस्यन्ति क्षिपन्ति देवानित्यसुराः “वाश्यसि ०" (सिद्धहेम० उणादि ४२३ ) इत्यनेन सूत्रेण उरप्रत्ययः, सुरविरुद्धत्वाद्वा न सुरा असुराः, अनर्थवद् नत्र समासः, दानवा इत्यर्थः । नृशू नये” नृणन्तीति नरा: "अच्" (सिद्ध हेम ० ५-१-४९) इत्यनेन सूत्रेण कर्तरि अच्प्रत्ययः, मनुष्या इत्यर्थः, सुराश्चाऽसुराश्च नराश्च सुरासुरनराः, "इदु पर मैश्वर्ये" इन्दन्तीति इन्द्रा: "भोवृधि० " (सिद्ध हेम० उण दि- ३८७ ) इत्यनेन सूत्रेण रप्रत्ययः, स्वामिन इत्यर्थः सुरासुरनराणामिन्द्राः सुरासुरनरेन्द्राः, तैः सुरासुरनरेन्द्रः, इन्द्रशब्दोऽत्र प्रत्येकमभिसम्बध्यते, "द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसंबध्यते” इति न्यायोपलम्भात् । ततश्चायमर्थः- सुरेन्द्रैश्वासुरेन्द्रैश्च नरेन्द्रैश्च वन्दितं= स्तुतिगोचरीकृतम् अभिवादनविषयीकृतं वा, एतेन सकललोकालोकप्रकाशककेवलादर्श सङ्क्रान्तसमस्तभावाना मुन्मूलितापारसंसारकाननपरिभ्रमणैककारण मोहनी यकर्मणां सकल मच्चहितकरपञ्चत्रिंशद्गुणसमन्वितवाचां निजकमलकोमलक्रमकान्त्योद्योतितभक्तिभरभृतहृत्सुरासुरनरनायकन मन्मौलिमुकुटमणिप्रभाणां तीर्थकृतां त्रिभुवनपूज्यत्वमावेदितं तथा विघ्नविघाताय शिष्टसमय परिपालनाय च मङ्गलोपन्यासः कृतः ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org