________________
४ ]
खासेढी
[गाथा-१
कूटसंभृतेऽनायनन्तसंसारपारावारे निमजता भव्यजन्गुनाऽनेकभवदुष्प्रापां प्रशस्तमानुषजन्मादिसामग्री कथमपि संप्राप्य भवाब्धिसमुत्तरणैकप्रवहणममे सकललोकालोकविलोकनैककुशलविमलकेवलालोकललितलक्ष्मीविलासितीर्थकरप्ररूपिते धर्मे यत्नः कर्तव्यः । यदुक्तम्
___ "भवकोटोदुष्पापामवाप्य नृभवादिसकलसामग्रीम् ।
भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः ॥१॥” इति । तत्राऽपि विशेषतः परोपकारकरणे प्रवर्तितव्यम् , तस्याऽन्वय-व्यतिरेकाभ्यामपि पुण्यबन्धकर्मनिर्जरादिनिबन्धनत्वात् । स चोपकारो द्विविधो द्रव्यभावभेदात् । तत्र द्रव्योपकारो भोजनशयनादिप्रदानादिस्वरूपः, स चाऽल्पीयान् अनात्यन्तिक ऐहिकदुःखोच्छेदेऽप्यसमर्थः, भावोपकारस्तु गरीयान् आत्यन्तिक ऐहिकामुष्मिकसर्वदुःखोच्छेदक्षमो जैनेन्द्रप्रवचनोपदेशादिलक्षणः । यन्न्यगादि
"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् ।
यादृशी दुःखोच्छेदाद् देहिनां धर्मदेशना ॥१॥" इति । स चोपदेशो यद्यप्युपदेष्टव्यभेदादनेकविधः,तथापि क्षपकश्रेणिविषयः कर्मक्षपणाविधिः प्रथमत उपदेष्टव्यः,तदुपदेशेन यवबुद्धकर्मक्षपणाप्रक्रियाः प्राणिनः कर्मोच्छेदोपायानुपादाय कर्मोच्छेदं विधाय परमानन्दपदमासादयिष्यन्तीत्यवगत्य बहुविस्तराऽतिगम्भीर-कर्मप्रकृति-शतक-सप्ततिकाकषायप्राभृतादितच्चूर्णिवृत्यादिप्रतिपादितक्षपणाप्रक्रियास्वरूपसुबोधार्थं च तत्तद्ग्रन्थोक्तकर्मक्षपणापदार्थान् सगृह्य क्षपकश्रेणिनामक ग्रन्थं प्रारिप्सुरादौ तावत् समस्तप्रत्यूहव्यूह विध्वंसाय शिष्टसमयपरिपालनाय च मङ्गलगा प्रेक्षावत्प्रवृत्त्यर्थं चाऽभिधेयादिगां प्रथमगाथां प्राह
पणमिअ सिरिपासजिणं सुरअसुरणरिंदवंदिअंणाहं । वुच्छामि खवगसेढिं सपरहिअटुं गुरुपसाया ॥१॥
प्रणम्य श्रीपार्श्वजिनं सुरासुरनरेन्द्रवन्दितं नाथम् ।
वक्ष्यामि क्षपकश्रेणिं स्वपरहितार्थ गुरुप्रसादात् ॥११॥ इति पदसंस्कारः। 'पणमिअ' इत्यादि, 'प्रणम्य' अत्र प्रशब्दः प्रकर्षार्थकः, ततो मनसा प्रणिधाय वचनेन स्तुत्वा कायेन नत्वा चेत्यर्थः, इत्थं प्रकर्षार्थकप्रशब्देन केवलद्रव्यनमस्कारोऽपाक्रियते, अन्यथा वीरकादिनमनवद् द्रव्यनमस्कारस्याकिञ्चित्करत्वेन फलाभावः स्यात् । तथाप्रकर्षार्थकप्रशब्द उपहासनमस्कारमपि निराकरोति,अन्यथा"नमस्यं तत्सखि प्रेम घण्टारसितसोदरम् । क्रमक्रशिमनिस्सारमारम्भगुरुडम्बरम् ॥” इत्यादिवदुपहासनमस्कारभ्रमोऽपि स्यादिति । कं प्रणम्य ? इत्याह 'सिरिपासजिणं' ति 'श्रीपार्श्वजिनम् ' तत्र स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः, यद्वा भगवति गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सपों दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org