________________
३
मङ्गलाचरणम् ]
खवगसेढी वन्दे तं गौतमाख्यं प्रथमगणधरं वीरविभ्वायशिष्यं प्राप्तो योऽष्टापदाद्रिं निजक-बलभराद् निर्वृतेनिर्णयाय । दीक्षव्याजाजनेभ्यो य इह खलु ददौ केवलज्ञानदीप्ति प्राप्ते श्रीवर्धमानेऽचलमरुजशिवं केवलं येन लब्धम् ॥४॥ (स्रग्धरा) मिथ्यामोहतमोयुतेऽतुलबलप्रद्युम्नभिल्लाकुले, *नानाकर्मलताऽऽस्पदे खलु युते के दुर्भेदकर्माद्रिभिः । दुर्वाद्योघवचाकुशादिगहने शोकानलस्याश्रये, स्तूयन्ते हितकारिणो भववने दानान्विताः सूरयः ॥५॥ (शार्दूलविक्रीडितम् ) वैराग्यामतपानपुष्ट हृदयो यो यश्च गच्छाधिपः, स्वाध्याये चरणे तथा सुकरणे नित्यं च यत्प्रेरणा । दाक्षिण्यैकनिधिस्तथा मधुरगीवागमज्ञश्च यः , सत्सिद्धान्तमहोदधिर्विजयते स प्रेमसूरीश्वरः ॥ ६॥ (शार्दूलविक्रीडितम् ) यः स्याद्वादनयप्रमाणविदुरो वैराग्यवारान्निधिमोहग्रीष्मसुतप्तभव्यभुवने यद्गीः पयोदायते । यो नित्यं तपते तपः कृशतनुः संसारसंतापहं स श्रीमान् खलु पातु भानुविजयः पन्न्यासपादो गुरुः ॥७॥ (शार्दूलविक्रीडि गम् ) भवाब्धेनिस्तारे प्रवहणसमः क्षान्तिसदनस्तपोवह्निवातैर्दुरितदलिकं * ज्वालयति यः । तथा यः संपूज्यश्चरणकुशलः सोदरचरो । जितेन्द्रः स्तात् सिद्ध्यै स विजयपदान्तो मम गुरुः ॥८॥ (शिखरिणी) पापानि विलयं यान्ति , यन्नामस्मृतिमात्रतः । ।
ते सर्वे मुनयः सन्तु, श्रेयसे भृयसे मम ।। ९ ।। (अनुष्टुप् ) & रचिता क्षपकणिः स्वपरेषां हिताय या। तत्स्वाध्यायसुयोगेन भृयान्नः कर्मसंक्षयः ॥१०॥ (अनुषुप् ) श्रुतदेवों हृदि स्मृत्वा पूज्यानां च प्रसादतः ।
स्वोपज्ञां क्षपकणिं विवृणोमि यथागमम् ।।११।। (अनुषुप् । इह खलु बहुभवोपार्जितशुभाशुभकर्मकलापजनितसंयोगवियोगसंकल्पविकल्पादिमच्छकच्छपादिजलजन्तुसंव्याप्त दुःसहकामवाडवाग्निप्रजाज्वन्यमाने क्रोधादिकषायावर्तपरिपूरिते विषयागेरि
*कर्माणि व्यापाराः प्रवृत्तय इति पर्यायाः। कर्माणि ज्ञानावरणादिलक्षणानि । * दलिकं काष्ठम् । * प्राकृतभाषायां निबद्धा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org