________________
खवगसेही.
[ मङ्गलाचरणम् ध्येयास्ते सर्वसिहा विमलशिवगतौ संस्थिताः कर्ममुक्ता *लोकन्ते लोकभावान् समभुवनविदो भोगिनः सिद्धिवध्वाः । जयद्ध्यानाऽगं श्रयन्ते शिवगतिफलकं स्वीयकर्माऽऽतपघ्नं
संसारस्फारसत्रे जनिमरणजरातापसंतप्तभव्याः॥३॥ (स्रग्धरा) (२) यद्वा हरिणा-अश्वेन, यदुक्तमभिधानचिन्तामणिकोशे-गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः (श्लो० १२३३) इति, अङ्किततनुः, श्रीमान् संभवनाथस्तृतीयजिनेश्वर इत्यर्थः,तस्य लाग्छनमागमेऽश्वो निरूप्यते । वीरशब्दश्चात्र यौगिको व्याख्येयः । तथाहि-वि=विशिष्टा सकलभुवनाद्भुता स्वर्गापवर्गादिका ई:= लक्ष्मीः, सा वीः, तां राति भव्येभ्यो यच्छति 'रांक दाने' इति वचनाद् इति वीरः, “प्रातो डोऽह्वावामः" (सिद्धहेम०५-१-७६) इत्यनेन डप्रत्ययः । ददाति च भगवान् सर्वभाषापरिणतया स्ववाण्या निःश्रेयसाभ्युदयसाधनोपायोपदेशेन भव्येभ्यो भुवनाद्भुतां श्रियम् । शेषं पूर्ववद् व्याख्येयम् । इति द्वितीयोऽर्थः।
(३) यद्वा हरिशब्दः कपिवाचको ज्ञेयः, यदुक्तमभिधानचिन्तामरिणकोशे-"प्लवङ्गः प्वलगः शाखा. मृगो हरिबलीमुखः ॥" (श्लो० १२९२) इति । ततश्चायमर्थ:-हरिणा-कपिना अङ्किततनुः,अभिनन्दनस्वामीत्यर्थः, निरूप्यते चागमे चतुर्थस्य भगवतो लाञ्छनं कपिरिति। शेषं पूर्ववद् वर्णनीयम् । इति तृतीयोऽर्थः ।।
. (४) यद्वा हरिणेति पदं तृतीयान्तं न व्याख्येयम्, किन्तु समासस्थो हरिणशब्दोऽयम् , स च मृगवाचकः । ततश्चायमर्थः-हरिणेन-मृगेण अङ्किता तनुर्यस्य, स हरिणाङ्किततनुः, षोडशः श्रीशान्तिनाथो भगवानित्यर्थः, तस्य भगवतो लाञ्छनं मृग इत्यागमे प्रतिपाद्यते, शेषं पूर्ववद् वर्णनीयम् । इति चतुर्थोऽर्थः ।
(५) यद्वाऽयं श्लोकः श्रीचन्द्रप्रभप्रभुमधिकृत्य व्याख्येयः । तथाहि-हरिशब्दोऽत्र चन्द्रवाचको ज्ञातव्यः । यदुक्तममरकोशे... यमानिलेन्द्रचन्द्रार्कविष्णुसिंहाशुवाजिषु ।। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु....॥ ( ३-३-१७५ ) इति, ततश्चायमर्थो भवति-हरिणा=चन्द्रेण अङ्किततनुः, श्रीचन्द्रप्रभोऽष्मस्तीर्थकर इत्यर्थः, तस्य भगवतो लाञ्छनं चन्द्र इति सिद्धान्त उपदिश्यते। अर्जुनशब्दश्चात्रः श्वेतवाचको ग्राह्यः । यदुक्तमभिधानचिन्तामरणो"... श्वेतः श्येतः सितः शुक्लो हरिणो विशदः शुचिः।१।” प्रवदातगौरशुभ्रवलक्षधवलार्जुनाः ....'(श्लो० १३९३ )इति । अर्जुना-श्वेता रुचिः-छविर्यस्य,सोऽर्जुनरुचिः,श्वेतकायो हि भगवांश्चन्द्रप्रभः । यदुक्तम् “शुक्लौ च चन्द्रप्रभपुष्पदन्तौ" । इति । शेषं तु पूर्ववद्योज्यम् । इति पञ्चमोऽर्थः।
(६) अथवाऽयं श्लोकः श्रीपाश्वनाथमधिकृत्य वर्णनीयः । तद्यथा- हरिशब्दोऽत्र सर्पवाचको बोद्धव्यः । यदुक्त विश्वकोशे-“हरितार्कचन्द्रन्द्रयमोपेन्द्र मरीचिषु । सिहाश्वकपिभेकाहिशुकलोकान्तरेषु च।" इति, ततश्चायमर्थः-हरिणा सर्पण अङ्किततनुः, श्रीपार्श्वनाथ इत्यर्थः, तस्य हि भगवतो लाञ्छनं सर्प इति सिद्धान्ते प्रतिपाद्यते, अर्जुनशब्दश्चात्र मयूरार्थको व्याख्येयः। यदुक्तं मेदिनीकोशे-"अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः...॥” इति, अर्जुनवद्-मयूरवत्-मयूरनीलवर्णवद् रुचिः द्युतिर्यस्य सोऽर्जुनरुचिः, नीलविग्रहो हि भगवान् श्रीपार्श्वनाथः । उक्तं चाऽभिधानचिन्तामणिकोशे-“कृष्णौ पुनर्नेमिमुनी, विनोलो श्रीमल्लिपाश्वों कनकत्विषोऽन्ये ॥” इति । शेषं पूर्ववद् निरूपणीयम् । इति षष्ठोऽर्थः ।
(७) प्रस्तुतव्याख्यानषटकं प्रतिपाद्य सम्प्रत्यस्य श्लोकस्याऽप्रस्तुतव्याख्यानं दर्श्यते । तथाहि-अर्जुना श्वेता रुचिः-छविर्यस्य सोऽर्जुनरुचिः,चन्द्रस्य विशेषणमिदम् ,एवमग्रेऽपि । अमृतं कराः धुतयो यस्य चन्द्रस्य स तथा,कलानां षोडशभागानाम् आश्रयः निलयः कलाश्रयः । विशेषेण ईरयति-प्रेरयतीति वीरः,कामादिविषयाणां हि प्रेरकश्चन्द्रः । जनानां लोकानां तापः जनतापः,तमपहरतीति जनतापापहरः,शीतलत्वाच्चन्द्रस्य, हरिणेन-मृगेण अङ्किता लान्छिता तनुर्यस्य,स हरिणाकिततनुः,चन्द्र इत्यर्थः,सकले विष्टपे जयति,सर्वत्र तदालोकत्वात् । इति सप्तमोऽर्थः । *लोकन्तेपश्यन्ति । समभुवनषिदः-सकललोकविज्ञाः । ॐ अगः=वृक्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org