SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ही आई" नमः ॥ A ॥ श्रीशङ्खेश्वरपार्श्वनाथो विजयतेतमाम् ॥ सकलागमरहस्यवेदि-श्रीमद्विजयदानसूरीश्वरेभ्यो नमो नमः । सिद्धान्तमहोदधि-श्रीमद्विजयप्रेमसूरीश्वरेभ्यो नमः । *G श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सच्चारित्रचूडामणि- कर्मशास्त्रनिष्णात - प्रातःस्मरणीयाचार्यशिरोमणि - श्रीमद्विजयप्रेमसूरीश्वरान्तेवासि - स्याद्वादनयप्रमाणविशारद - पन्न्यासप्रवरश्रीमद्-भानु विजयगणिवर्य शिष्यप्रशिष्य-श्रीमद्गच्छनायकप्राध्यापित-वाचंयममतल्लिका-जयघोषविजय-धर्मानन्दविजय हेमचन्द्रविजय-गुणरत्नविजयसंगृहीतकर्मक्षपणापदार्थका मुनिपुङ्गव जितेन्द्र विजयचरणारविन्दचञ्चरीकायमाणाऽन्तिषदा मुनि - गुणरत्नविजयेन विरचिता स्वोपज्ञवृत्तिविभूषिता Jain Education International खवगसेठी [ क्षपक-श्रेणिः ] श्रीवरं तं वन्दे निजजननमहे यः सुरेशाभिषिक्तः दत्तं दानं च वर्षं सकलहितकरं भव्यवर्गाय येन । प्रात्राजीद्यः स्वकीयं विततभवविपत्कर्मशत्रु निहन्तु, येन ध्यानानिशक्त्या खलु झटिति कृतो घातिकाष्ठप्रणाशः ॥ १ ॥ (खग्धरा) * हरिणाङ्किततनुरर्जुनरुचिरमृतकरः कलाश्रयो वीरः । जनतापापहर: श्रीभाक् सकले विष्टपे जयति ॥ २ ॥ ( पयार्या) * (१) हरिणा = सिंहेन " सिंहः कण्ठीरवो हरिः" इति हैमवचनात् अङ्किता = लान्छिता तनुः = शरीरापरपर्याया यस्य, स तथा,श्रीमतो हि भगवतो वर्धमानस्वामिनो लाञ्छनं हरिः, तच्च भगवतः सव्येतरजङ्घा - रूपे शरीरे भवतीत्यागमः । अर्जुनवत् = चामीकरवत् "तपनीय - चामीकर- चन्द्रभर्माऽजुन निष्क- कार्तस्वरकर्बुरारिण” (श्लोकाङ्कः १०४४) इत्यभिधानचिन्तामणिकोशे सुवर्णवाचकत्वादर्जुन शब्दस्य, रुचिः=छवियँस्य, स तथा,अमृतं करोतीत्यमृतकरः, शिवकर इत्यर्थः, अमृतशब्दो हि शिवत्राचकः, यदुक्तमभिधानचिन्तामणिकोशे"महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं (लो० ७४) इति । कलानां सर्वकलानाम् आश्रयः= आस्पदं कलाश्रयः, सर्वकलानिपुणत्वाद् भगवतः । हरतीति हर; "अच्” (सिद्धहेम० ५-१-४९) इत्यनेन सूत्रेण कर्तर्यच्प्रत्ययः । जनानां समूहो जनता, तस्याः पापानि = दुरितानि जनतापापानि तेषां हरो जनतापापहरः, सकलजनदुरितविनाशीत्यर्थः श्रियं = केवलज्ञानरूपामष्टमहाप्रातिहार्यलक्षणां वा भजतीति श्रीभाक वीरः=अपश्चिमजिनपतिः, सकले= निखिले विष्टपे - विश्वे जयति = इन्द्रिय-विषय-कषाय-परिषहोपसर्ग-घातिकर्मादिशत्रुगणपरिजयात् सर्वानप्यतिशेते । इति प्रथमो ऽर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy