________________
-१६५ ]
३३. संस्थानविचयः
1856 ) यान्यत्र प्रतिबिम्बानि स्वर्गलोके जिनेशिनाम् । विमान चैत्यवृक्षेषु मेर्वाद्युपवनेषु च ।। १६१ 1857 ) तेषां पूर्व मेंहं कृत्वा सद्द्द्द्रव्यैः स्वर्गसंभवैः ।
पुष्पचन्दननैवेद्यैर्गन्धदीपाक्षतोत्करैः ।। १६२' 1858) गीतवादित्रनिर्घोषैः स्तुतिस्तोमैर्मनोहरैः ।
स्वर्गैश्वर्यं ग्रहीष्यामि ततस्त्रिदशवन्दिर्तम् ||१६३ 1859 ) इति सर्वज्ञदेवस्य कृत्वा पूजामहोत्सवम् ।
स्वीकुर्वन्ति तदा राज्यं पट्टबन्धादिलक्षणम् ॥ १६४ 1860 ) तस्मिन् मनोजवैर्यानैर्विचरन्तो यदृच्छया ।
वनाद्रिसागरान्तेषु दीव्यन्ति त्रिदिवौकसः || १६५
1856) यान्यत्र - यानि अत्र स्वर्गलोके प्रतिबिम्बानि जिनेशिनां तीर्थंकराणाम् । विमाने चैत्यवृक्षेषु मेर्वाद्युपवनेषु । च पक्षान्तरे । इति सूत्रार्थः || १६१ || अथ तेषां कर्तव्यतामाह ।
1857 ) तेषां पूर्वम् - तेषां जिनबिम्बानाम् अहं पूजां कृत्वा । कैः । सद्द्रव्यैः । कीदृशैः । स्वर्गंसंभवैः स्वर्गजातैः । पुष्पचन्दनादि सर्वं सुगमम् । इति सूत्रार्थः || १६२ || पुनः कैः पूजा क्रियते । 1858) गीतवादित्र - ततस्तस्मात् त्रिदशवन्दितं देववन्दितम् । शेषं सुगमम् । इति सूत्रार्थः ॥ १६३॥ [ पश्चात् राज्यं स्वीकुर्वन्ति तदाह । ]
1859) इति सर्वज्ञ - पट्टबन्धादिलक्षणं पट्टाभिषेकादिकम् । शेषं सुगमम् । इति सूत्रार्थः ॥ १६४ ॥ अथ तत्र देवानां स्वरूपमाह ।
1860 ) तस्मिन्मनोजवैः - तस्मिन् स्वर्गे यानैः वाहनैः यदृच्छया विचरन्तः । कीदृशैः । मनोजवैः मनोवत् शीघ्रगैः । त्रिदिवौकसः देवाः । वनाद्रिसागरान्तेषु दीव्यन्ति क्रीडन्ति । इति सूत्रार्थः || १६५ || अथ पुनः स्वर्गिणां सुखमाह ।
५९९
यहाँ स्वर्गलोक में विमानों व चैत्यवृक्षोंके आश्रित तथा मेरु आदिके उपवनोंमें जो जिनेन्द्र देवोंकी प्रतिमाएँ हैं उनकी मैं पहले स्वर्ग में उत्पन्न हुए पुष्प, चन्दन, नैवेद्य, गन्ध, दीप और अक्षतोंके समूहों द्वारा गीत व वादित्रोंकी ध्वनियुक्त मनोहर स्तुतिसमूहोंके साथ पूजा करता हूँ | तत्पश्चात् देवोंसे वन्दित स्वर्गके ऐश्वर्यको ग्रहण करूँगा ।। १६१-६३ ।।
इस विचार से वे सर्व प्रथम सर्वज्ञ देवके पूजामहोत्सवको करते हैं और तत्पश्चात् पट्टबन्धादिरूप राज्यको स्वीकार करते हैं ॥ १६४॥
वे देव वहाँ स्वर्ग में मनके वेगके समान शीघ्र गमन करनेवाले विमानोंके द्वारा इच्छानुसार वन, पर्वत और समुद्र के अन्तमें क्रीड़ा किया करते हैं ॥१६५॥
१. J विमाने । २. M N पूजामहं । ३. M N सद्दिव्यैः, S X R स्वद्रव्यैः । ४ X गन्धधूपां । ५. Y om. this verse | ६. All others except PM J 'वन्दितः । ७. Pपूजां । ८. YR स्वीकरोति । ९. NST FJY R ततो for तदा । १०. NTF Y R दीव्यन्ते ते दिवो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org