SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ५९६ ज्ञानार्णवः 1842 ) शृङ्गारजलधेर्वेला विलासोल्लासितभ्रुवः । लीलालङ्कारसंपूर्णास्तव नाथ समर्पिताः || १४७ 1843 ) सर्वावयवनिर्माणश्रीरासां नोपमास्पदम् । यासां श्लाध्यामल स्निग्धपुण्याणुप्रभवं वपुः ॥ १४८ 1844 ) अयमैरावणो नाम देवदन्ती महामनाः । धत्ते गुणाष्टकैश्वर्याच्छ्रियं विश्वातिशायिनीम् ॥ १४९ 1845 ) इदं मत्तगजानीकमितो ऽश्वीयं मनोजवम् । एते स्वर्णरथास्तुङ्गा वल्गन्त्येते पदातयः || १५० 1846 ) एतानि सप्त सैन्यानि पालितान्यमरेश्वरैः । नमन्ति ते पदद्वन्द्वं वेत्ति विज्ञप्तिपूर्वकम् ॥ १५१ 1842) शृङ्गार — हे नाथ, एताः स्त्रियः समर्पिताः । कीदृश्यः । शृङ्गारजलधेः शृङ्गारसमुद्रस्य वेलाः । पुनः कीदृश्यः । विलासोल्लासिता भ्रूः यासां ताः । पुनः कीदृश्यः । लीलालङ्कारसंपूर्णाः । इति सूत्रार्थः || १४७ || अथ पुनस्तत्स्वरूपमाह । 1843 ) सर्वावयव - आसाम् अग्रस्त्रीदेवीनां सर्वावयवनिर्माणश्रीः सर्वशरीरावयवरचनाश्रीः उपमास्पदं नो वर्तते। यासां वपुः श्लाघ्यम् अमलस्निग्धपुण्याणुप्रभवं निर्मलस्निग्धपवित्रपरमाणुजातम् । इति सूत्रार्थः || १४८ || अथ स्वर्गश्रियं दर्शयन्ति तामाह । 1844 ) अयमैरावणः - अयमैरावणो नाम देवदन्ती श्रियम् । कीदृशः दन्ती । महामनाः । कीदृशीं श्रियम् । विश्वातिशायिनीम् । कस्मात् । गुणाष्टकैश्वर्यात् । इति सूत्रार्थः ॥ १४९ ॥ 1845 ) इदं मत्त - इदं प्रत्यक्षेण दृश्यते मत्तगजानाम् । पश्येति प्रत्येकं योज्यम् । यतः स्वयम् अश्वानाम् इदम् अश्वीयम् अनीकम् । एते प्रत्यक्षं स्वर्णरथाः तुङ्गाः उन्नताः । वल्गन्ति । कटकान्ते पदातयस्ते । इति सूत्रार्थः || १५० || अथ स्वर्गसर्वस्वं दर्शयन्नाह । 1846 ) एतानि - भवान् विज्ञप्तिपूर्वकं वेत्ति । शेषं सुगमम् । इति सूत्रार्थ: ।। १५१ ।। अथ पुनरमराः कथयन्ति । [ ३३.१४७ इनके समस्त अवयवोंकी रचनाकी लक्ष्मी अनुपम है ! कारण कि उनका शरीर प्रशंसनय, निर्मल व स्निग्ध, पवित्र परमाणुओंसे उत्पन्न हुआ है || १४८ || Jain Education International यह उदार मनवाला आपका ऐरावण नामका देवहस्ती है जो अणिम-महिमा आदि आठ गुणों के सामर्थ्य से समस्त लोकको आश्चर्यान्वित करनेवाली लक्ष्मीको धारण करता है ॥ १४९ ॥ यह मदोन्मत्त हस्तिसेना है, इधर यह मनके समान वेगवाले घोड़ोंकी सेना है, ये उन्नत सुवर्णमय रथ हैं, तथा ये पादचारी चल रहे हैं ॥ १५०॥ ये इन्द्रोंके द्वारा रक्षित सात सेनाएँ हैं । वे द्वारपालके निवेदनके साथ आपके चरणयुगल में नमस्कार कर रहे हैं ।। १५१ ।। १. M N निर्माणा, T निर्वाण । २. L अयमैरावतो । ३. M N चलन्त्येते । F वेत्सि X R नति for वेति । For Private & Personal Use Only ४. S वंति, TY चेति, www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy