________________
५८९
-१२१ ]
३३. संस्थानविचयः 1812 ) तत्रातिभव्यताधारे विमाने कुन्दकोमले ।
उपपाद शिलागर्भे संभवन्ति स्वयं सुराः ॥११८ 1813 ) सर्वाक्षसुखदे रम्ये नित्योत्सवविराजिते ।
गीतवादिवलीलाढ्ये जयजीवस्वनाकुले ॥११९ 1814 ) दिव्याकृतिसुसंस्थानाः सप्तधातुविवर्जिताः ।
कायकान्तिपयःपूरैः प्रसाधितदिगन्तराः ॥१२० 1815 ) "शिरीषसुकुमाराङ्गाः पुण्यलक्षणलक्षिताः ।।
अणिमादिगुणोपेता ज्ञानविज्ञानपारगाः ॥१२१ 1812) तत्रातिभव्यता-तत्र स्वर्गे अतिभव्यता मनोहरत्वं तदाधारं विमानं तस्मिन् । कोदृशे। कुन्दकोमले मुचकुन्दकोमले उपपादशिलागर्भे सुराः संभवन्ति । इति सूत्रार्थः ॥११८।। अथ विमानं वर्णयति ।
1813) सर्वाक्ष-कीदृशे। सर्वाक्षसुखदे सर्वेन्द्रियसुखोत्पादके। रम्ये मनोहरे । नित्योत्सवविराजिते । सुगमम् । गीतवादित्रलीलाढये । जय, जीव इति स्वनः शब्दः । तेनाकुले व्याप्ते। इति सूत्रार्थः ॥११९।। अथ पुनः कीदृशाः।
1814) दिव्याकृति-दिव्याकृतिः मनोहराकारः, सुसंस्थानाः समचतुरस्रसंस्थानाः । सप्तधातुविवर्जिताः रुधिरादिसप्तधातुरहिताः। कायकान्तिपयःपूरैः प्रसाधितदिगन्तराः । इति सूत्रार्थः ॥१२०॥ अथ पुनस्तेषां स्वरूपमाह।
_____1815) शिरीष-शिरीषवत् सुकुमाराङ्गाः । पुण्यलक्षणलक्षिताः । पुनः कीदृशाः । अणिमादिगुणोपेताः अणिमागरिमाद्यष्टगुणसंयुताः। कीदृशाः । ज्ञानविज्ञानपारगाः। इति सूत्रार्थः ॥१२१॥ अथ पुनस्तेषां स्वरूपमाह।
वहाँ अतिशय सुन्दर विमानमें कुन्दपुष्पके समान कोमल उपपादशय्याके मध्यमें देव स्वयं उत्पन्न होते हैं ॥११८॥
सब इन्द्रियोंको सुख देनेवाले, रमणीय, निरन्तर चलनेवाले उत्सवोंसे सुशोभित, गीतवादित्रोंकी लीलासे व्याप्त और 'जय' व 'जीव' इन आशीर्वादात्मक शब्दोंकी ध्वनिसे परिपूर्ण उस स्वर्गमें दिव्य आकृति और उत्तम संस्थानके धारक, रस-रुधिरादिरूप सात धातुओंसे रहित, शरीरकी कान्तिरूप जलके प्रवाहसे दिङ मण्डलको अलंकृत करनेवाले, शिरीष पुष्पके समान सुकुमार शरीरसे संयुक्त, पवित्र चिह्नोंसे चिह्नित, अणिमा-महिमा आदि गुणोंसे परिपूर्ण, ज्ञान व विज्ञानके पारगामी, चन्द्रबिम्बके समान आह्लादको उत्पन्न करनेवाले, दोषोंसे रहित, उत्तम अभिप्रायवाले, अचिन्त्य माहात्म्यसे सहित; भय, क्लेश व पीड़ासे विरहित,
१. M उपपात, All others except PM Jउपपादि। २. J सुराः सदा। ३.XY add : चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी। प्रसाधनोपचारज्ञा सैरन्ध्रीति निगद्यते ॥ ४. All others except P L F प्रसादित । ५. Y om. this verses
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org