SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ५८८ ज्ञानार्णवः 1808) विज्ञानविनयोद्दाम प्रीतिप्रशम' संभृताः । निसर्गसुभगाः स्वर्गे भवन्ति त्रिदिवौकसः ॥११४ 1809 ) न तत्र दुःखितो दीनो वृद्धो रोगी गुणच्युतः । विकलाङ्गो गतश्रीकः स्वर्गलोके विलोक्यते ।। ११५ 1810 ) सभ्य सामानिकामात्यलोकपालप्रकीर्णकाः । मित्राद्यभिमतस्तेषां पार्श्ववर्ती परिग्रहः ।। ११६ . 1811 ) बन्दिगायकशैलीन्ध्रीस्वाङ्गरक्षा ः पदातयः । " नटवेत्रिविलासिन्यः सुराणां सेवको जनः ॥ ११७ 1808) विज्ञान - त्रिदिवौकसः देवाः स्वर्गे भवन्ति । कीदृशाः । विज्ञान - विनयाभ्याम् उद्दामप्रीतिप्रसरः * तेन संभृताः । पुनः कीदृशाः । निसर्गसुभगाः स्वभावनिपुणाः । इति सूत्रार्थः ॥११४॥ अथ तत्र दुःखादीनामभावमाह । 1809) न तत्र-तत्र स्वर्गे दुःखितादयो न विलोक्यन्ते । शेषं सुगमम् । इति सूत्रार्थः ॥ ११५ ॥ अथ तेषां निकट परिग्रहमाह । 1810) सभ्याः——सभ्याः सभासीनाः देवाः, सामानिकाः इन्द्रसमानाः । अमात्याः मन्त्रिप्रायाः । लोकपालाः कुबेरादयः । प्रकीर्णकाः प्रसिद्धाः । तेषां देवानां पार्श्ववर्ती परिग्रहः मित्राद्यभिमतः वाञ्छितः । इति सूत्रार्थः ॥ ११६ ॥ अथ तेषां सेवकजनमाह । [ ३३.११४ 1811) बन्दिगायक - बन्दी यशः पाठकः, गायको गन्धर्वः, शैलेन्ध्री* इन्द्राणी, स्वाङ्गरक्षाः पदातयः, नटाः प्रसिद्धाः, "वेत्रविलासिन्यः वेत्रोपरि नृत्यन्त्यः । सुराणां सेवको जनः ॥११७॥ अथ पुनस्तेषां स्वरूपमाह । गुणोंसे सहितः सत्त्व व शीलका आलम्बन लेनेवाले तथा विज्ञान, विनय, उत्कट प्रीति एवं प्रशमसे परिपूर्ण होते हैं ॥१११-११४॥ वहाँ स्वर्गलोक में कोई भी दुखी, दीन, वृद्ध, रोगी, गुणोंसे शून्य, विकल शरीरवाले ( लँगड़े आदि ) और लक्ष्मीसे रहित नहीं देखा जाता है ।।११५|| पारिषद्, सामानिक, अमात्य ( त्रायस्त्रिश ), लोकपाल और प्रकीर्णक देव तथा मित्रादिस्वरूपसे माने गये देव; यह सब उनका पास में रहनेवाला परिग्रह है ।। ११६ ॥ स्तुतिपाठक, गायक, सैरन्ध्री ( शिल्पकार्य करनेवाली ), आत्मरक्षक, पदाति, नट, auser और विलासिनी जन; ये देवोंके सेवकजन होते हैं ॥११७॥ १. All others except P प्रसर for प्रशम । २. NST FR सर्वे भवन्ति । ३ दिवौकसः, M त्रिविधौकसः । ४. P प्रकीर्तिकाः । ५. LSFYR गायन । शैलेन्ध्री, X शैलेन्द्र:, Y R सैरन्ध्री । ७. TJ नटवेत्र | Jain Education International For Private & Personal Use Only X Y प्रभवन्ति ६. L S T F J www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy