________________
४६४
ज्ञानार्णवः
1368 ) ततस्तेषु क्रमाद्वायुः संचरत्यविलम्बितम् । स विज्ञेयो यथाकालं प्रणिधानपरैर्नरैः ||६३ 1369 ) घोणाविवरमापूर्य किंचिदुष्णः पुरन्दरः । वहत्यष्टाङ्गुलं स्वस्थः पीतवर्णः शनैः शनैः ||६४ 1370 ) त्वरितः शीतलो ऽधस्तात् सितरुक् द्वादशाङ्गुलः । वारुणः पवनस्तज्ज्ञैर्वहनेनावसीयते ॥ ६५
1371 ) तिर्यग्वहत्यविश्रान्तः पवनाख्यः षडङ्गुलः । पवनः कृष्णवर्णो ऽसावुष्णशीतश्च लक्ष्यते ॥ ६६
3
1368 ) ततस्तेषु - ततः कारणात् तेषु पार्थिवादिमण्डलेषु क्रमाद् वायुः संचरति । अविलम्बितं विलम्ब रहितं प्रणिधानपरैर्नरैर्यथाकालं स विज्ञेयो ज्ञातव्यः । इति सूत्रार्थः ॥ ६३॥ अथ पुरन्दरवायुमाह ।
[ २६.६३
1369 ) घोणाविवरम् - पुरन्दरः पार्थिवः अष्टाङ्गुलः * स्वस्थः शनैः शनैर्वहति । पुनः कीदृशः । पीतवर्णः । कथं वहति । घोणाविवरम् आपूर्य पूरयित्वा । किंचिदुष्णः । इति सूत्रार्थः ॥ ६४ ॥ अथ पुनः पार्थिवादिस्वरूपमाह ।
1370 ) त्वरितः - सितरुक् शुक्लो द्वादशाङ्गुलः द्वादशाङ्गुलप्रमाणः । अधस्ताच्छीतलः । पुनः कीदृशः । त्वरितः शीघ्रगामी । वारुणः पवनः तज्ज्ञैर्वनेन विशीर्यते । इति सूत्रार्थः || ६५ || अथ वायुमण्डलपवनमाह ।
1371 ) तिर्यग्वहति - पवनाख्यः पवनः अविश्रान्तः तिर्यग्वहति । कीदृशः । षडङ्गुलः षडङ्गुलप्रमाणः कृष्णवर्णः । असौ उष्णशीतश्च लक्ष्यते । इति सूत्रार्थः || ६६ || अथ वह्निपवनमाह ।
उक्त चार मण्डलोंमें क्रमसे शीघ्र ही जिस वायुका संचार होता है, ध्यानमें तत्पर हुए मनुष्योंको उसे कालके अनुसार जानना चाहिए ||६३ ||
Jain Education International
नासिका के छेदको पूर्ण करके थोड़ा उष्ण, प्रमाण में बारह अंगुल, स्वस्थ ( स्वच्छ ) एवं वर्ण से पीत जो धीरे-धीरे वायु बहता है उसे पुरन्दर वायु जानना चाहिए ॥ ६४ ॥
जो वायु वेगयुक्त, शीतल, नीचे धवल वर्ण प्रभावाला एवं बारह अंगुल प्रमाण हो वह वरुण पवन कहा जाता है । उसका निश्चय वायुके ज्ञाता वहन क्रियासे करते हैं || ६५||
छह अंगुल प्रमाण पवन नामका वायु निरन्तर तिरछा बहता है । वह वायु वर्णसे काला तथा कुछ उष्ण भी होता है और कुछ शीत भी ।। ६६ ।
१. M S T K X Y R°दुष्णं, F दुष्णपुरन्दरैः । २. LS FK X Y R वरुणः । ३. P पवनाक्षः । ४. All others except P LF उष्णः ।
For Private & Personal Use Only
www.jainelibrary.org